SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ नन्दनवनकल्पतरुः २.... सत्यावेव मन्यन्ते । अग्रेतनीय प्राङ्गणे प्रत्यहं प्रातःकाले प्रक्षिप्तान् धान्यकणान् चरितुं मयूरपारापतादयः विहगाः झटिति झटिति तत्रागच्छन्ति स्म, तन्मध्ये केचनविहङ्गमास्तु हस्तमध्यादपि धान्यं चरन्ति स्म । कीदृग् मनोहरं तद् दृश्यम्, तद्दर्शनान्नैव चक्षुषी व्यरमेताम् । तत्र विराजमानानां पूज्याचार्यमहाराजश्रीविजयनन्दनसूरीश्वराणां सविधे तदा श्रीनन्दिसूत्रस्य वाचना प्रारब्धा । तस्य प्रारम्भकालीनः कतिचिद्भागः तर्कप्रचुरत्वेन सामान्यतया न सर्वेषां सुगमः । पूज्यसूरीश्वरैस्तु तद्विवेचनमेवं विशदरीत्या विहितं यच्छ्रुत्वा वयं भृशमानन्दभरभाजनाः समभूम । अस्मज्जीवनस्य स किल सुवर्णकालः समासीत् । एतावति व्यतीतेऽपि सुदीर्घकालऽद्यापि तत्संस्मरणं प्रत्यग्रमेव विद्यते । तदा वयं ये केचन मुनयः आस्म, ते सर्वेऽपि भिन्नभिन्नप्रकारेण शास्त्राध्ययनाध्यापनलेखनचिन्तनादौ एवं व्यापृताः आसन्, यन्न कस्यापि केनाऽपि सार्द्धं निष्कारणवार्तालापकरणावकाशः । तदा तत्रत्यैर्मुनिभिः शास्त्रनिर्दिष्टं 'गयं पि कालं न जाणंति' इति वचनं स्वजीवनेऽनुभूयमानमवगतम् । ४७ अद्यापि तत्समयसंस्मरणं चेतसि कामपि वचनातीतविषयामानन्दानुभूतिं जनयति । ततश्च अनायासमेव वदनान्निःसरति । 'ते हि नो दिवसा रम्याः ॥ सर्वंसहा महान्तो हि सदा सर्वंसहोपमाः ।। " हैमवचनामृतम् Jain Education International For Private & Personal Use Only 91 www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy