________________
४८
......नन्दनवनकल्पतरुः २......
SALA
COR
M OUSANDER ढिावचारान्वित चन्तनाया
K
S
(अनूदितः)
-मुनिविमलकीर्तिविजयः ॥ भगवनिष्ठा भक्तिः ... ॥१॥ योगो निर्विचारस्थितिः ... ॥२॥ मूर्छारहितो निर्ग्रन्थः ... ॥३॥ विषयासक्तो न साधकः ... ॥४॥ स्वानुभूतिः शून्यतायामेव भवति ... ॥५॥ शास्त्राध्ययनस्य लक्ष्य अनुभवरसप्राप्तिरस्ति ... ।।६।। आत्मशुद्धावस्था मोक्षोऽस्ति, अशुद्धावस्था संसारोऽस्ति ... ॥७|| आत्मरतसाधकान् परमात्मा स्वयमेव रक्षति ... ॥८॥ मुक्तेरमात्मज्ञानमस्ति, तद् ध्यानसाध्यमस्ति ... ।।९।। शुद्धात्मनोऽजसमनुसंधानं परमात्मसमापत्तेः कारणमस्ति ... ॥१०॥ आत्मध्यानेन आत्मस्वरूपमनुभूयते ... ॥११।। योगरहस्यं साधनया प्रकटति ... ॥१२॥ तत्त्वदर्शनं चेतसः प्रशान्तावस्थायां लभते ... ॥१३॥ श्रद्धा साधननिष्ठाऽस्ति, भक्तिः साध्यनिष्ठाऽस्ति ... ।।१४।। प्रभोरनुग्रहेणैव आत्मज्ञान-सत्क्रिया-सच्छ्रद्धादय उत्पद्यन्ते ... ॥१५।। निर्विकल्पवीतरागसमाधिरेव केवलज्ञानस्य बीजमस्ति ... ॥१६।। आत्मतृप्तेः साधनं आत्मनः साक्षाद् दर्शनमस्ति ... ॥१७।। 'अहम्' इत्यस्य विसर्जनं तदेव ‘अर्हम्' इत्यस्य सर्जनमस्ति ... ॥१८॥ भक्त्या कृपा वर्धते, कृपया भक्तिर्वर्धते ... ।।१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org