________________
१६
......नन्दनवनकल्पतरु: २......
-
गता। परमपूर्वसमाधिना सर्वं सहमानास्तेऽतिष्ठन् । सकलोऽपि भावनगरस्थः सङ्घो नक्तन्दिनं तान् शुश्रूषते। व्याधिना सार्द्धं समाधिरपि तेषां प्रावर्द्धता एवं समाधि-पूर्वकं सकलसङ्घस्योपस्थितावेव स्वर्गतास्ते पूज्यचरणाः ।
वृतान्त एष गुरुभगवतां श्रुत्वा श्रीनेमविजयमहाराजा भग्नहृदया अभूवन् । अन्तःकाले स्वस्याऽनुपस्थित्या दुःखं तान् शल्यायते स्म । किन्तु 'न घटितं प्रत्येति कदापी'ति चिन्तयन्तः स्वस्था अभवन् । ‘अधुना तु गुरुभगवत्तुल्यान् गुणानङ्गीकृत्य तेषां च भावनानुरूपेण शासनस्योद्योत एव कर्तव्य' इति निश्चितवन्तः । नन्दवेदनिधीन्दु (१९४९) वर्षस्य चतुर्मासी पादलिप्तपुरे एव स्थिताः ।
__(३) ज्ञानप्राप्तिस्तु प्राधान्येन लक्ष्यरूपेण प्रवर्तत तेषां जीवने । 'चारित्रजीवनस्याऽऽधारोऽपि ज्ञानमेव विद्यते' इति दृढं तेऽमन्यन्त।।
ज्ञानं न केवलं श्रमसाध्यः क्षयोपशमसाध्यो वा योगः । नापि तावन्मात्रेणैव तत् कार्यं साधयति । किन्तु श्रमेण क्षयोपशमेन वा सार्द्धं यदा समर्पणं विनयश्च प्रविशतस्तदैव तदान्तरिकी निर्मला परिणतिं जनयितुं समर्थं भवति । सैव निर्मला परिणतिर्विवेकमुद्भावयति, समन्वयं जनयति, शान्ति स्थापयति सन्मार्ग च दर्शयति सर्वेषु क्षेत्रेषु । केवलं क्षयोपशमेन जन्यं ज्ञानं कदाचित् चित्तेऽहङ्कारमुद्भावयेदिति शक्यमेव, पश्चाच्च ‘ज्ञानं विवादाये'त्युक्तिमपि सत्यापयेत् ।
तेषां जीवने प्रतिक्षणं दृश्यमाना जागृतिः, निर्दम्भवृत्तिः, सरलता च तेषां समर्पणपूतस्य ज्ञानस्यैव प्रभाव आसीत् । सर्वोत्कृष्टायामपि बाह्योपलब्धौ ते मिथ्याभिमानमस्पृशन्त एव निर्लेपा निरहङ्काराश्चाऽतिष्ठन्, तत्राऽपि तेषां ज्ञानपूता परिणतिरेव कारणभूताऽऽसीत् ।
सततं ते व्यचारयन् यद्-‘सङ्घस्य मूलं तु ज्ञानमेवाऽस्ति । तत्सर्वोऽपि यद्यज्ञानमेव प्रवय॑ते तर्हि परस्परं वादविवादे तस्य सामर्थ्यं सत्त्वं वा विनक्ष्यति । ज्ञानं तु सङ्घस्य शक्तिरस्ति । अत एव तैः पूज्यैामे ग्रामे धार्मिकाभ्यासार्थे पाठ
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org