SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरुः २...... % - स्वल्पेनैव कालेन प्राथमिकोऽभ्यासः पूर्णः कृतः । अथ ‘कोऽपि मेधावी साधुः कौमुदीव्याकरणमधीयता' मिति गुरुभगवतां चिरमनोरथं पूरयितुं सङ्कल्पितवन्तश्च ते । एकदा गुरुभगवतः पार्श्वे विज्ञाप्तिरपि कृता यद् - 'भवदभिलषितं कौमुदीव्याकारणमध्येतुमहमुत्सहे । अतो यदुचितं तदादिशतु भवान्'। आकर्यैतत् स्वविनेयस्य विनयवचनं गुरुभगवन्तोऽप्यतीव प्रसन्ना बभूवुः । सततं वर्षन्तीदृशी गुरुभगवतां प्रसन्नता एव तेषां सर्वाङ्गीणस्य विकासस्य मूले वर्तते स्म । गुरुभगवन्तोऽपि सर्वं विरचितवन्तः । राज्यस्य पण्डितमहोदयस्य पार्श्वे - ऽभ्यास प्रारब्धः। स्वीयप्रतिभया विनयगुणेन च पण्डितवर्यस्य हृदयमावर्जितं तैः । यावन्नेष अभ्यासः समाप्नुयात् तावत् षड्विकृतीनां त्यागं सङ्कल्पितवन्तस्ते । ईदृशो वर्तते स्म तेषां गुरुभगवन्तं प्रति समर्पणभावः । शरीरे ज्वरादयो व्याधयोऽप्युद्भूतास्तथापि स्वप्रतिज्ञायां ते दृढा एवाऽतिष्ठन् । तिस्रः चतुर्मास्यस्तत्रैव भावनगरे कृताः। तत्काले पूज्यदानविजयमहाराजाः न्यायव्याकरणादिविषयेऽतुलं विद्वत्तां दधानाः ख्याता आसन् । पादलिप्तपुरे संस्कृतपाठशालायाः स्थापने तेषाममिलाषः प्रावर्तत। पूर्वकालस्य सम्यक्परिचयात् 'यदि मुनिनेमविजयोऽत्राऽऽगच्छेत्तर्हि पाठशालायामभ्यासादिप्रवृत्तयः सुष्ठ प्रवर्तेरन्' इति ते सततमवाञ्छन् । सिद्धि - युग-निधीन्दु (१९४८) वर्षे यदा तैः पूज्यैः पाठशाला स्थापिता तदा भावनगरं पूज्य वृद्धिचन्द्रजीगुरुभगवन्तं प्रति विज्ञप्तिरपि प्रेषिता यद् - 'मुनिने मविजयमत्र कृपया प्रेषयतु भवान्'। गुरुभगवताऽपि लाभाऽलाभादि सम्यग् विचार्याऽऽज्ञा कृता । गुरुभगवत्स्वास्थ्यमनुलक्ष्य स्वयमनिच्छन्तोऽपि गुरुभगवतामाज्ञामनुसृत्य गतवन्तस्ते । श्रीदानविजयगुरुभगवन्तोऽपि तान् दृष्ट्वा परमां प्रसन्नतां प्राप्नुवन् । अध्ययनाऽध्यापनादि सर्वं सवेगं प्रवर्तितम् । अथ च - अत्र भावनगरे श्रीवृद्धिचन्द्रगुरुभगवतां स्वास्थ्यविकृतिर्वृद्धिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy