SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरु: २...... ७२ - श्रीमधुमती(महुवा)नगरे “शासनसम्रट्-सुवर्णचन्द्रक"-प्रदानसमारम्भः प्रवर्तमानो वैक्रमीयः शरेन्द्रियशून्ययुग(२०५५)मितः संवत्सर श्रीजिनशासननभोऽङ्गणमणीनां तपोगच्छाधिपतीनां परमगुरुभगवतां शासनसम्राजां तातपादानां श्रीविजयनेमिसूरीश्वराणां स्वर्गारोहणार्धशताब्दीवत्सरोऽस्ति । तत्पूज्यानां जन्मभूमिरप्येषाऽस्ति तथा स्वर्गारोहणमपि तेषामस्यामेव भूमौ वैक्रमीयशरशून्यगगनयुग(२००५)मितवर्षे बभूव । तेषां महोपकारि-सत्पथप्रदर्शकगुरुभगवतां संस्मरणप्रेरितः श्रीमधुमतीनगरसत्को जैनसङ्घो विविधानि चिरस्मरणीयानि च कार्याणि शासनप्रभावकपूज्याऽऽचार्यश्रीविजयसूर्योदयसूरीश्वरपट्टधरपूज्याऽऽचार्यश्रीविजयशीलचन्द्रसूरीश्वराणां मार्गदर्शनेन प्रेरणया चकुर्वन्नस्ति। वैक्रमीये विधुशरव्योमयुग(२०५२)वर्षे, शासनसम्राड्गुरुभगवद्भिः स्थापिताया जैनधार्मिकपाठशालाया वर्षशतस्य पूर्णाहुतिप्रसंगे उपर्युक्ताऽऽचार्यद्वयस्य प्रेरणया 'शासनसम्राट्सुवर्णचन्द्रक'प्रदानयोजनाऽपि अत्रस्थेन श्रीसद्धेन कारिताऽऽसीत् । तदनुसन्धानेनैवैष प्रसङ्गोऽधुनोपस्थितोऽभूत् । समारम्भ एष पूज्याचार्यश्रीविजय-शीलचन्द्रसूरीश्वरभगवतां तथा साध्वीजीश्रीशशिप्रभाश्रीमहोदयानां च शुभनिश्रायां वैक्रमीये शरभूतगगनयुग (२०५५)वर्षे श्रावणशुक्लैकादशीदिने ऐसवीये २२-८-१९९९ तमे दिने सम्पन्नोऽभूत्। पण्डितवर्यश्रीछबीलदास-केसरीचन्द-संघवीमहोदय(सूरत)-पण्डितवर्यश्रीकपूरचन्द-रणछेडदास-वारैयामहोदय(भावनगर) इत्यनयोः पण्डितवर्ययोर्ज्ञानक्षेत्रे श्रीजैनसङ्के महानुपकारोऽस्ति । नैकशतजैनसाधु-साध्वीमहाराजैः श्रावकश्राविकाभिश्च तयोः सान्निध्ये संस्कृत-प्राकृतभाषाव्याकरण-संस्कृतप्राकृतग्रन्थधार्मिकसूत्राणामभ्यासः कृतोऽस्ति । अपि च वृद्धावस्थायामपि तौ स्वस्वास्थ्यमवगणय्याऽधुनाऽप्यध्यापयतः । जैनशासनस्य धुरीणा आचार्यवर्या अपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy