SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरुः २...... विविधप्रश्नेषु पण्कितवर्ययोरनयोरभिप्रायमयेक्षन्ते । ज्ञानगम्भीरयोरेतयोर्बहुमानप्रसङ्गे पण्डितवर्यश्रीवसन्तभाईमहोदयो मुख्यातिथिरूपेणोपस्थितोऽभूत् । स्वकीये वक्तव्ये च तैरस्याः प्रवृत्या अनुमोदनं कृतमासीत् । ‘एषा प्रवृत्तिरादर्शत्वेन सर्वत्र ग्राह्या' इति चोक्त्वा वर्तमानकाले पाठशालानां शैथिल्यं प्रदर्शितम्, तदूरीकरणार्थं च सर्वे प्रेरिता अपि । ___पण्डितमहोदययोः चन्द्रक-प्रशस्तिपत्र-कम्बलिकाप्रदानादिबहुमानविधिः श्रीमधुमतीजैनसङ्घस्य मुख्यैः सभ्यैः कृताऽऽसीत् । चन्द्रकप्रदानादिना सार्द्धमेवैकादशसहस्ररूप्यकाणां पृथक् पृथग् निधिरपि उभयोः पण्डितवर्ययोः समर्पितः । किन्तु न ताभ्यां स स्वीकृतः । अतः पूज्यार्यवर्याणां सत्प्रेरणया पञ्चविंशतिसहस्ररूप्यकप्रमाणः स निधिः सर्वत्र जैनपाठशालायाः सहायिकायै 'श्रीजैनतत्त्वज्ञानप्रचारकपरिषद्' इत्याख्यसंस्थायै श्रीमधुपुरीजैनसङ्घन समर्पितः । तत्पश्चादत्यन्तनम्रभावेन स्ववक्तव्ये पण्डितवर्याभ्यां कथितं यद् “नाऽऽवामस्मै बहुमानाय योग्यौ। किन्तु सा महेसाणासत्कश्रीयशोविजयजीसंस्कृतप्राकृतपाठशाला ते चाऽध्यापका गुरुभगवन्तश्चैव बहुमानार्हाः, येरावामध्यापितौ । आवयोः श्रावकश्राविकाश्च सादरं स्मरावः । अस्यामेव भूमौ जगन्मान्या जगद्वन्द्याः शासनसम्राटप्रमुखविभूतयो जाताः सन्ति । अत्र धार्मिकाभ्यासार्थं पाठशाला प्रचलतीति तु शोभनमेव किन्तु तत्सञ्चालनमेवं कर्त्तव्यमस्ति येन विदुषामविच्छिन्ना परम्परा सततं प्रवर्तेत । लघुवयस्कानां पाठशाला यथा प्रवर्तमानाऽस्ति तथा प्रौढवयस्कानामभ्यासार्थमप्यायोजनमनिवार्यमधुनाऽस्ति । अतस्तदपि यथाशीघ्रं कर्त्तव्यमू"। ____समारम्भस्य परिसमाप्तौ मङ्गलप्रवचनं तु पूज्याचार्यश्रीविजयशीलचन्द्रसूरिभगवद्भिः कृतम् । ज्ञानस्य महिमा तस्य च जीवनेऽनिवार्यताऽपि तैः प्ररूपिता। अत्यन्तं संवेदनपूर्णहृदयेन चोभयोः पण्डितवर्ययोर्जीवनमपि वर्णितं यद्“प्रभूतेष्वपि विकटसंयोगषु ताभ्यां न ज्ञानस्येदं क्षेत्रं कदापि त्यक्तम् । 'परिस्थितीनां कर्माधीनत्वेन नात्र शोक: कर्त्तव्यः, ज्ञानमेव सन्मार्ग' इत्येवं विचार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy