________________
......नन्दनवनकल्पतरु: २......
परमपूज्य - शासनसम्राट् - बालब्रह्मचारि - तपागच्छाधिपति सूरिचक्र चक्रवर्ति-तातपाद-श्रीविजयनेमिसूरीश्वराणां गुरुस्तुत्यष्टकम् ।।
- मुनिरत्नकीर्तिविजयः
सदैव संस्मराम्यहं यदीयनाम कामदं कृताशुभाघनाशकं महोदयप्रदायकम्। सुमन्त्रवत्प्रभावकं प्रभूतसिद्धिवृद्धिदं नमामि नेमिसूरिपं जगद्गुरुं च तं मुदा ।।१।।
त्वदीय सेवनादधीः सुधीः प्रजायते परः त्वदीयदर्शनादघव्रजश्च नाथ ! नश्यति । त्वदीयसंस्तवो मदीयचित्तशोधको वरो नमोऽस्तु ते नमोस्तु ते नमोऽस्तु तातपादः ते ।।२॥
स्वकीयजन्मना च येन पावनीकृतं कुलं समर्पिता स्वतातमातरौ च तुष्टिरद्भुता । समस्तलोककोकशोकमोचकोष्णदीधितिः चिरं स जीवताद् गुरूत्तमश्च नेमिसूरिराड् ।।३।।
अधन्यमस्ति जीवनं ममाऽथ नाथ ! तारय त्वमेव मे शरण्यमत्र किञ्चिदस्ति नाऽपरम् । . कृपां विधेहि नाथ ! मय्यनाथशेखरे खलु भवे भवे तवैव पत्कजं च मेऽस्तु मन्दिरम् ।।४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org