________________
OK
......नन्दनवनकल्पतरु: २.
सागरतीरे विचरन्, सम्यग् ह्युपदिश्य धीवरादिजनान् ।
विरमय्य हि हिंसातो, वरमकृत जीवदयाकृत्यम् ॥१०॥ मुनिसम्मेलनसमये, बुद्धिप्रागल्भ्यमस्य सन्दृश्य । सर्वेऽपि तत्रत्यजना, भृशमेव चमत्कृता जजुः ।।११।।
यद्ब्रह्मचर्यचर्यां, दुरनुष्ठेयां विलोक्य सहसैव ।
वदनादद्भुतमद्भुत-मिति शब्दः सरति सर्वेषाम् ।।१२।। भावनगरभूपालो, वलभीपुरभूपति प्रमुख्याश्च । यद्वचसा प्रतिबुद्धाश्चक्रु हिँसादि परिहारम् ॥१३॥
आनन्द-मालवीया-कविनानालालमुख्यबुधवाः ।
येन सह तत्वचर्चा, कृत्वा प्रीतिं परां प्रापुः ।।१४।। तत्तत्कार्यविधात्री-संस्थाकार्याधिकारिणः श्राद्धाः । यन्मार्गदर्शनेना-ऽकुर्वन् सर्वाणि कार्याणि ॥१५॥
एकस्मिन्नपि जन्मनि, पूज्यैः कार्याणि यानि विहितानि ।
बहुमनुजैर्बहुजन्मसु, कर्तुं न हि तानि शक्यानि ।।१६।। पूज्यश्रीनेमिगुरुभक्त्यैवं संस्तुतो मया परया । श्रीदेवसूरिगुरुराट्-शिष्यश्रीहेमचन्द्रेण ॥१७॥
स्वप्रशंसेवाऽन्यनिन्दा सतां लज्जाकरी खलु ॥
“हैमवचनामृतम्"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org