________________
३६
.......नन्दनवनकल्पतरुः २.....
तस्य क्षरणेन सार्द्धमेव भयानकः शब्दोऽप्युदभवत् । शास्त्रे एतादृशः शब्दो 'निर्घात' इति नाम्ना निरुपितोऽस्ति । आसन्नकाल एव कस्यचिदपि महापुरुषस्य चिरवियोगस्य संसूचकोऽयं शब्दो भवति। ____ एकदा स्थण्डिलशुद्धिं कृत्वा प्रत्यागच्छन्तस्ते पूज्याः गतिस्खलनात् पतिताः । पश्चाच्न श्लेष्म-कासादिरोगा अपि जाताः । सर्वं किन्तु समभावपूर्वकमेव ते सहन्ते स्म । न कदापि कस्यचिदप्यग्रे शारीरिकी प्रतिकूलतामभिव्यञ्जन्ति स्म । सकलोऽपि सङ्घः सेवनार्थमनवरतमुपस्थित एवाऽऽसीत् । राजनगरादि भिन्नभिन्नस्थलेभ्यो भक्तश्रावका अपि कुशलपृच्छार्थं गमनागमनं कुर्वन्ति स्म।
अश्विनकृष्णस्य दशम्या दिवसे शरीरे ज्वर उद्भूतः । व्याधिस्तु सततं ववृधे । तत्सार्द्ध तु तेषां समभाव आत्मजागृतिः सहिष्णुताऽपि वर्द्धमाना एवाऽऽसन् । स्वल्पाऽपि व्याकुलता तेषां मुखे वचने वा न कदापि दृष्टा । शरीरमात्मनो भिन्नमिवाऽनुभवन्तः पश्यन्तश्च समाधिस्था इव प्रतिभान्ति स्म ।
धनत्रयोदश्या दिवसे ज्वरव्याधिः किञ्चिन्यूनोऽभवत्। प्रातःकाले पूज्यपादान्तिके उपविशन् श्रीनन्दनसूरिमहाराजोऽकथयत् - 'भगवन् ! परेद्यवि दीपालिकापर्वाऽस्ति, तदनन्तरं च भवत्पूज्यानां जन्मदिनमप्यस्ति'। तातपादैरुक्तम् - 'अहं क्व दीपालिका पर्व द्रक्ष्यामि?' __आकर्यैतद्गुरुवचनं श्रीनन्दनसूरिमहाराजः साश्रुलोचनेनाऽऽस्वरेण चाऽवदत् - 'भगवन्! किमर्थमेतादृशं वदन्ति तत्रभवन्तः?' परित उपविष्टाः सर्वेऽपि ग्लानिमनुबभूवुः। ___मध्याह्नकाले श्रीनन्दनसूरिमहाराजः पूज्यैराहूतः - 'नन्दन ! मत्पार्श्वे त्वमुपविश।' पश्चात् शनैः शनैरुचितकर्त्तव्यानि निर्दिष्टानि, संघ-शासनार्थमपि यथायोग्यं संसूचितम् । सर्ववचनानि च पूज्यपादानां श्रीनन्दनसूरिमहाराजेनाऽपि तथा इति' इतिकृत्वा सावधानमङ्गीकृतानि।
पश्चादुपचारार्थमाझ्लवेद्य आगतः । जम्बीररसपानार्थं तेन विज्ञप्तम् । तच्छ्रुत्वा पूज्यैर्मन्दस्वरेण कथितम् - ‘अद्यपर्यन्तं न मया कदापि फलादय उपयुक्ताः । अतः
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org