________________
......नन्दनवनकल्पतरुः २......
-
-
अधुना तु सर्वतः स्वप्रसिद्धिनामको महाव्याधिरुदपद्यत । ईदृग्महाव्याधिना श्रस्ता जनाः स्वविनाशं तु कुर्वन्ति, किन्तु पतनमन्येषामपि कुर्वन्ते । नायं श्रीतातपाद एतेन व्याधिना पीडित आसीत् । ततश्चैवाऽयं महापुरुषः ‘शासनसम्राट्' इत्येवं विश्वविश्रुतिं प्राप्ताः ।।
अस्य श्रीतातपादस्य नैष्ठिक ब्रह्मचर्यमप्यनन्यमेवासीत् । अस्मिन् जिनशासनेऽन्तिमवर्षेषु पूज्यनिभो ब्रह्मचर्यपालकः साधुः नाजनि ।
अहं तु मन्ये, यद् ब्रह्मचर्यस्य शक्तिरप्रतिमास्ति । ब्रह्मचारिणः सत्पुरुषस्य पवित्रदेहादतिप्रचण्डस्तेजोपुञ्जो निर्गच्छति, एतत्तेजःपुञ्ज कोऽपि विशुद्धात्मैव सहते । यावती ब्रह्मचर्यविशुद्धिः तावती तेज:पुञ्जस्य प्रमाणमर्यादा । अस्यां प्रमाणमर्यादायां न केऽपि दृष्टवासनावासितदेवाः तथाऽशुभवृत्तयश्च प्रवेष्टु समर्थाः । कदाचित्कोऽपि मलिनदेवः समीपमागच्छेत् तर्हि तस्य दुष्टवृत्तिस्तु विलीयेत एव, यतो ब्रह्मचारिण एवमेव वर्तते सामर्थ्यम् । ___ तथैवैतादृशो महापुरुषस्य वचनमपि मन्त्रायते । तन्मुखात् निर्गच्छन् शब्दोऽपि ब्रह्मवाक्यं भवति । तत्प्रभावात् देवा अपि स्वयमेव प्रत्यक्षीभूयन्ते ।
नैष्ठिक ब्रह्मचर्यस्य परमां शक्तिं निरूपयन्नेकः प्रसंगः ।
वैक्रमीयदर्शनाङ्गनन्दसर्वंसहावर्षे (१९८६) श्रीबोटादनगरे समवासरत् चातुस्यिर्थं श्रीतातपादः । तत्रैव नगरे प्रसिद्धो ‘महम्मदछेल' नामकौतूहल्युवास । स कौतूहली श्रीतातपादस्य विश्वख्यातिं श्रुत्वा तं श्रीतातपादं नन्तुमागतः । __ पूज्यं वन्दित्वा तेन कस्या अपि विद्यायाः प्रयोगेण स्वात्मा प्रसिद्धीकृतः । किन्तु न श्रीतातपादो विस्मयीभूतः। पूज्यमुखात् सहसैव गीः प्रसृता, ‘छेल ! कदाचिदपि विद्ययतया साधूनां वा सत्पुरुषाणां नावहेलनं करिष्यसि ।। ___ ततः श्रीतातपादेन त्वरितमेव पीठत्रिकमानीतम् । ते पीठका एकस्योपर्युपरि स्थापिताः। तत्रोपरि स्वयं श्रीतातपाद आसीनः । पश्चात् श्रीतातपादेन छेलः कथितः, मध्यस्थितं पीठकमाकर्ष । कुतूहलप्रेमिणा छेलेन शनैः स पीठक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org