SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४२ ..नन्दनवनकल्पतरुः २...... तीर्थरक्षा-शासनरक्षा-विधिविधानशुद्धि-चित्कोषस्थापना-गोशालास्थापनादिप्रत्येकक्षेत्राणामयं महापुरुषः श्रीतातपादो योगक्षेममवहत् । गुणाकरोऽयं तेजोमूर्तिः श्रीतातपाद आसीत् । तत्रापि तस्य पूज्यस्य निरीहता परमविशुद्धनैष्ठिकब्रह्मचर्यं चेति गुणयुग्मं मे मानसमतीव प्रीणयति । नैकवसुन्धरास्वामिनो मन्त्रिणः श्रेष्ठिनश्चैतं त्यागिनं श्रीतातपादं नन्नमितुमागच्छन् । तथापि तस्य पूज्यस्य निरीहता तु हिमालयशृङ्गसमाऽऽसीत्। तत्रागत्य ते श्रेष्ठिनः पूज्यस्य महत्तां सन्मानं चाकुर्वन् । तथापि निर्दभताविनम्रतादिगुणौघैः पवित्रकायेण श्रीतातपादेन कदापि सन्मानादयो नोररीकृताः । तन्निरीहतायाः दर्शनं कारयन् प्रसंग एकः स्मृतिपथमायाति । एकदा श्रेष्ठिना श्रीमहासुखलालेन पृष्टम् - भो पूज्य ! तीर्थसंरक्षणार्थं कदाचित् राजकोटनगरं प्रति गमनं भवेत्, तर्हि कदा तत्र भवानुपस्थातुं शक्तिमान् भवेत् । श्रीतातपादेन कथितं - श्रेष्ठिन् ! पादविहारेण पञ्चदशसु दिनेष्वहं सौख्येन तत्स्थानं प्राप्नुयाम् । तद्वचनं श्रुत्वा श्रेष्ठी आह - प्रभो ! किं शासनरक्षादिषु प्रसङ्गेषु शिबिकाया अपवादमार्गेणोपयोगो न क्रियते? | पूर्वकाले तु पूर्वाचार्यैः शासनहितार्थं शिबिकाया उपयोगः कृतः श्रूयते । भवानपि करोतु । ___ तदा विनम्रतया श्रीतातपादेनोक्तम्- 'श्रेष्ठिन्! ते तु महान्तः पुरुषा आसन् , अहं तु तेषां चरणरजोनिभोऽस्मि । न मादृशस्य तेषामनुकरणं शोभते' । __अस्मिन् प्रसङ्गे श्रीतातपादस्याहङ्कारस्य संपूर्णतः शून्यभावो दृश्यते, तथा साधुजीवनस्य पालनार्थमुत्कण्ठैव ज्ञायते । ____ अनेन महापुरुषेण कदापि स्वकीयप्रसिद्ध्यर्थं न प्रयत्नः कृतो न कारितश्चाऽपि । य आत्मविख्यात्यर्थमुद्यच्छते, स महापुरुषत्वेन कथमभिधीयते? । - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy