________________
......नन्दनवनकल्पतरुः २......
६९
-
-
तार्किकः
भिक्षुकः
तार्किकः भिक्षुकः तार्किकः
भिक्षुकः
भो वत्स ! तव पोट्टं बुभुक्षयैव रिक्तमित्यत्र न किमणि प्रमाणमस्ति । रिक्तता तु प्राणायामेनाऽपि भवेत् । (भयद्रुतः सन्-) पूज्य ! नाऽहं कमपि पानाराम-बानारामादिकं जाने। इदं रिक्तत्वं तु दिनत्रय बुभुक्षयैवाऽभवत् । न किमपि भुक्तं मया दिनत्रयात् । मम त्वयि शङ्का भवति। कृपया मयि विश्वासं कुरु। (क्रुद्ध इव-) रे बाल! न्यायसूत्रकारं विहाय नाऽन्यं कमपि विश्वसिमि । किञ्च त्वं प्रत्यक्षेणैव सर्वाङ्गसम्पूर्णः पुष्टश्च दृश्यसे तथाऽपि बुभुक्षितोऽस्मीति वदसि । तर्हि कोऽत्र हेतुः किञ्चाऽनुमानम् ? यद्येतत् सर्वमुपयुज्य त्वमनुमानप्रमाणेन प्रमाणीकरोषि चेत् तदैव त्वामहं विश्वसिमि। प्रभो ! नाऽहं कमपि हनुमानं जानामि । कृपया मे किमपि खादितुं देहि। भो वत्स! त्वं बालकोऽसि । न्यायशास्त्रमतीव गहनमस्ति । प्रमाणेन विना चाऽहं किमपि कर्तुं न शक्नोमि । (एतच्छ्रुत्वा निर्विण्णो भिक्षुको विलक्षीभूय ततो निर्गच्छति।)
तृतीयं दृश्यम् (ततो भिक्षुकोः कवेर्गृहं गच्छति।) पण्डितराज ! भोः कविराज ! (रघुवंश-काव्यकलशादिपुस्तकानि गृहीत्वा काव्यानि पठन् बहिरागतः) हे नर ! त्वं केनाऽलङ्कारेण वदसि ? कं च रसमनुभवसि ? (रुदन्) प्रभो ! दिनत्रयेणाऽशनायितोऽस्मि । बहुनाऽपि भ्रमणेन न किमपि लब्धं भिक्षायां मयाऽद्य । कृपया किञ्चिद् भुक्तावशिष्टमपि
तार्किकः
भिक्षुकः कविः
भिक्षुकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org