________________
६८
.... नन्दनवनकल्पतरुः २......
-
भिक्षुकः
अधुना मामनुवद। प्रभो ! प्रथमं मे रोटिकां देहि । भृते सति पोट्टे पश्चान्मां खधा-गधादि
शिक्षय। वैयाकरण: रे वत्स ! किमिति रोटिका-रोटिकेति रटन् मुह्यसि ? शब्दब्रह्मण
उपासनां सेवनं स्तवनं च कुरु । शब्देष्वेव प्राणा विद्यन्ते । शब्दा एव जीवनम् । शक्तिः सामर्थ्यं च तैरेव वर्धते । तव क्षुधाऽपि
तैर्विनक्ष्यति। भिक्षुकः किन्तु प्रभो ! प्रथमं मे किञ्चिद्... वैयाकरण: (मध्य एव) रोटिकया किमपि न भवति बाल ! त्वं शब्दब्रह्मण एव
सेवनं कुरु । तव सर्वदुःखाणि विलीनीभविष्यन्ति । (एतच्छ्रुत्वा खिन्नो दीनवदनो भिक्षुर्निराशीभूय ततो निर्गच्छति, अन्यत्र
च गन्तुं प्रक्रमते । तं गच्छन्तं विलोक्य) वैयाकरण: (स्वगतम्) अहह ! कीदृग् मे वाचः सामर्थ्यम् ।? अस्य वराकस्य क्षुधाऽपि मम वाणीप्रवाहे विलीना।
द्वितीयं दृश्यम् (भिक्षुकः समीपस्थं तार्किकगृहं गच्छति) भिक्षुकः पण्डितराज ! भो पण्डितराज! दिनत्रयेण बुभुक्षितोऽस्मि। दयां कृत्वा
मे किमपि खादितुं देहि । भगवान् त्वां सुखीकरिष्यति। तार्किकः भो भिक्षुक ! तव बुभुक्षितत्वे किं प्रमाणमस्ति? अपि च ‘दयां कुरु'
इत्येतत् कथयितुंममाऽधिकारोन तव । किञ्च भगवति किं प्रमाणम् ?
सोऽपि तव वचसा मां सुखीकरष्यितीति कथं विश्वसिमि ? भिक्षुकः प्रभो ! मम बुभुक्षितत्वे इदं मे पोट्टमेव प्रमाणमस्ति । (उदरं दर्शयन्)
पश्याऽत्र खड्डम् । अपि च भगवांस्तु सर्वत्र विद्यते । योऽप्यन्योपरि दयां करोति तं स सुखीकरोति।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org