________________
...नन्दनवनकल्पतरुः २......
६७
भूमिका- एकस्माद् ग्रामान्मिथः सुहृदस्त्रयो ब्राह्मणा अध्ययनं कर्तुं काशीमगच्छन् । ब्राह्मणोपरि सरस्वती सदा प्रसन्ना' इत्युक्तिं सत्यापयद्भिस्तैरल्पेनैव कालेन बहूनि शास्त्राण्यधीतानि, स्वस्वविषये च पारङ्गता अभवन् । तत्रैको वैयाकरणोऽन्यस्तार्कि कोऽपरश्च कविः सञ्जातः । किन्तु व्यवहारानभिज्ञत्वाद् अभिमानितत्वाच्च त्रयोऽपि पुस्तकपण्डिता एवाऽभवन् ।। ___अध्ययनं समाप्य यदा ते निजग्रामं प्रतिनिवृत्तास्तदा ग्रामवासिभिर्जनैस्तेषां स्वागतं सम्मानं च कृतम् । एतेन तेषामभिमानं सुवृद्धिमाप - ‘यदस्मादृशो ज्ञानिनोऽस्मिन् जगति नैव विद्यन्ते' इति । अनेन ते स्वेतरान् जनान् तुच्छतया मन्येरन्।
तत्राऽपि वैयाकरणो येन केनाऽपि सह भाषमाणस्तस्य भाषास्खलनामेव शोधयति स्म । तार्किकस्तु सर्वत्र शङ्कां कुर्वाणः सर्वं वस्तु प्रमाणेनैव स्वीकर्तुमाग्रहयति स्म । कविस्तु स्वीयाऽस्खलितवाणीप्रवाहे हतप्रभमन्यं जनं निमज्जयति स्म । एवमेव दिनानि गमयतां तेषां एकदा किमभूत् तत् पश्यामः
प्रथमं दृश्यम् (दिनत्रयेणाऽलब्धभिक्षत्वादतीव बुभुक्षुः कश्चिद् भिक्षुको गृहाद् गृहं भ्रमन् वैयाकरणगृहं प्राप्य-) भिक्षुकः पण्डितराज! भोः पण्डितराज! किमपि खाद्यं देहि भिक्षुकाय मे ।
दिनत्रयेण न किमपि खादितं मया । अतीव भुक्खा लगिता । पश्येदं खड्डे मे पोट्टे । कृपयैकां रोटिकां देहि । गिरधारी भगवान् त्वां
सुखीकरिष्यति। वैयाकरण: (द्वारि आगत्य) रे भिक्षुक ! किमेवमसमञ्जसं रारटटीषि ? सम्यग्
वक्तु मपि न जानासि? 'भुक्खा लगिता' इति न समीचीन: प्रयोगोऽस्ति । 'मां क्षुधा बाधते' एवं वद । अपि च पोट्टं खड्डं च मा
वादीः। ‘पश्य ममोदरे इमां गर्ताम्' इति कथय । भिक्षुकः (लज्जितः) क्षम्यतां महाराज! मां खधा बाधे । पश्य मम उन्दरम् । वैयाकरण:
(क्रुद्धः सन्) भोः ! किमपि बुध्यसे न वा ? किमिदमालजालं वक्षि ? इदं सम्यक्तया शृणु। 'क्षुधा मां बाधते, पश्य मम उदरम्' इति ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org