________________
......नन्दनवनकल्पतरुः २......
एकदा कश्चिदुपद्रवो जातः, अतो लोका अपि भयग्रस्ता इवाऽऽसन् । कैश्चिद् द्वेषिजनैस्तु ‘दहति घृताहुति'रिव तत्र मुग्धलोकेषु भयमपि प्रवर्तितम्, यद् - 'अत्राऽपि यधुपद्रवो जायेत तर्हि किं भविष्यति?' किन्तु महोत्सवार्थमुपस्थिताः श्रावकास्त्वेतादृशमपप्रचारमलक्षयित्वा निश्चिन्ता एवाऽस्थुः । ते तु दृढममन्यन्त यद्-‘शासनसम्राजां निश्राऽस्माभिर्लब्धा, अतो नास्त्यत्र कोऽपि भयावकाशः ।'
वैक्रमीयनिधिसिद्धिनन्देन्दु (१९८९) मिते वर्षे महाशुक्लत्रयोदशीतो महोत्सवः प्रारब्धः। भिन्नभिन्नस्थलेभ्यः सहस्त्रसङ्ख्याका: प्रतिमाः प्राणप्रतिष्ठार्थमागताः। विंशतिर्दिनानि सक्षेमं व्यतीतानि ।
प्राणप्रतिष्ठायाः पूर्वस्यां रात्रादेव झंझावतः समुत्थितः । सर्वमस्तव्यस्तमभूत् । गुरुभगवन्तो निजश्रुतधरशिष्यं श्रीउदयसूरिमहाराजमपृच्छन् 'उदय ! आसीत् कोऽप्येतादृशो योगः ?' आम् । भगवन्तःकालेऽपि तादृश एव योगो वर्तते' इत्युत्तरं स दत्तवान् । ततो गुरुभगवतामाज्ञानुसारेण स्वयं श्रीनन्दनसूरिमहाराजेन सह विशिष्टो जपयोग आदृतः । इतः सर्वेषु मण्डपेषु प्रतिस्तम्भं पञ्चषा जना रक्षणार्थं च नियुक्ताः । कथित समये एव पुनः झंझावात प्रवृत्तः । किन्तु गुरुभगवतां प्रभावेण न किञ्चिद् घटितमनुचितम् । सानन्दं निर्विघ्नं च प्राणप्रतिष्ठा निष्पन्ना। फाल्गुन-शुक्लतृतीयायां च मूलनायक श्रीमहावीरस्वाम्यादिजिनाबिम्बानि प्रतिष्ठापितानि । एवं सानन्दं प्रतिष्ठामहोत्सवः सम्पन्नो बभूव । तद्दिने एव च पर्वतोपरि निर्माणाधीनानां जिनालयानां प्रतिष्ठाऽपि निर्णीता। ___स्वल्पेनैव कालेन तत्पश्चात् ते जिनालया अपि निर्माणमाप्ताः। तन्महोत्सवेऽपि पञ्चशतानि जिनबिम्बानि भिन्नभिन्नग्रामेभ्योऽञ्जनशलाकार्थं समायातानि । तन्महोत्सवोऽपि पूज्यचरणानां निश्रायां तेषां ब्रह्मतेजःप्रभावेण निर्विघ्नमेव समाप्तिमगात् ।
एवं 'एतत्तीर्थमुर्द्धर्त्तव्यमेवे'त्यस्य तेषां सङ्कल्पस्य सिद्धिरपि भूता । नेकैवर्षेः सेवितं स्वप्नमपि साकारं बभूव । एतेन च परमस्तोषोऽनुभूतो गुरुभगवद्भिः ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org