________________
......नन्दनवनकल्पतरुः २......
तथैवाऽद्य भवन्तोऽपि स्वीकुर्वन्तु । को बाधः? ' इति ।
श्रुत्वैतद् भक्ति प्रेरित वचनं गुरुभगवन्तोऽजल्पन् - 'नाऽहं श्रीहीरसूरीश्वरसदृशः समर्थः । तेषां महापुरुषाणां चरणयोरपि नास्ति मे स्थानम् । तेषामनुकरणं मादृशानां न शोभते पामराणाम् ।'
ये वस्तुतः शासनस्य धुरीणा महापुरुषास्तेष्वेवैतादृशी निर्दम्भनम्रता दृश्यते । ये तु स्वं सर्वोपरित्वेन ख्यापयन्ति तेषु तु नम्रताया दम्भ एव प्रवर्तते । ____निशम्य गुरुगिरं सर्वे व्याहरन् “एवमस्तु । किन्तु - ‘गुरुभगवद्भिर्वय - मुपदेशदानेन व्यसनेभ्यो मोचिताः स्मः' इति भूमिग्रहणलेखपत्रे यद्युल्लेख्यते तदैव वयं स्वीकरिष्यामः ।"
तेषां तादृशं हार्दिकं भावं सम्मान्य तदनुरूपमेव लेखं कृत्वा आणंदजी -कल्याणजीसंस्थया उचित मूल्येनैव भूमिः क्रीता । तीर्थोद्धारकार्यमप्यारब्धम् । गुरुभगवन्तो विहृतवन्तः । संस्था एवैतत्कार्यं करिष्यती' ति मत्वा सततं तेऽप्रेरयन् । किन्तु न कश्चित् परिणामविशेषो दृष्टो दीर्घकालेनाऽपि । तत्कार्यमारब्धमेवाऽवातिष्ठत । व्यतीते कियति काले पूज्यपादाः पुनस्तां तीर्थभूमिमाजग्मुः । 'भिन्नभिन्नश्रावकाणां द्रव्यैरेवैतत्कार्यं करणीय'मिति निर्णीतवन्तश्च । ___ न केवलं पर्वतस्य शिखरे किन्त्वत्र ग्रामेऽप्येको जिनालयः कर्तव्यः' इत्यपि तेषां कामितमासीत् । अतः प्रयत्नपूर्वकं तदर्थमपि भूमिः प्रापिता । ततः परं नूतनजिनगृहस्य जीर्णोद्धारस्य च कार्यमपि सवेगं प्रचलितम् । स्वल्पैनैव च कालेनैकसप्ततिदेवकुलिकामण्डितस्य जिनमन्दिरस्य निर्माणकार्यं समाप्तिमितम् । ___ नूतनतज्जिनगृहस्य प्रतिष्ठार्थं पुनः पूज्यपादैः स्वागमनेन तत्क्षेत्रमलङ्कृतम् । श्रावकश्रेष्ठिनोऽप्यपूर्वेणोत्साहेन महोत्सवं प्रतीक्षमाणा अतिष्ठन् । यतो बहुभिर्वषैर्जिनबिम्बानामञ्जनशलाकायाः (प्राणप्रतिष्ठायाः) प्रसङ्ग उपस्थितोऽभूत् । कियद्भिर्वर्षेर्न केनाऽपि तदर्थं प्रवृत्तिरादृता । पादलिप्तपुरे एतादृशे महोत्सवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org