________________
.......नन्दनवनकल्पतरुः २......
-
काल उदितमस्तङ्गमयति, अस्तगतं च उदायति किन्तु अस्तित्वं परावर्त्तयितुं न स शक्तोऽस्ति । शासनसम्राजस्तु न केवलं व्यक्तित्वं किन्तु कालजयि अस्तित्वमपि। व्यक्तित्वं विलीयते कालेन, अस्तित्वं तु शाश्वतमवतिष्ठते। जिनशासनस्य प्राणतुल्यानां तेषां भगवतामस्तित्वं नैकरूपेण विलसदनुभूयते वर्तमानकालेऽपि । तदेव चाधुना जैनशासने दृश्यमानाया उन्नत्या अप्याधाररूपमस्ति। ____ जगद्वन्द्यानामेतेषां महापुरुषाणामेतत्स्वर्गारोहणार्द्धशताब्दीवर्ष प्रवर्त्तते । एतस्मिन्नवसरे च तेषां पूज्यपादानामुपकारान् संस्मृत्य तद्दर्शितपथं चाऽनुसृत्य हार्दिकी भावाञ्जलिं समर्पयेम।
प्रान्ते - कालजयिनामेतेषां महापुरुषाणां सर्वाङ्गसम्पूर्ण गुणसङ्कीर्तनं न मादृशैरज्ञैः शक्यम् । केवलं तेषामचिन्त्यमहिमशालिनां साधुतायाः परमोपासकानां चरणमभिवन्द्य तेषां कृपाप्रसादेन मय्यपि साधुतायाः प्रादुर्भावो भूयादिति प्रार्थयामि । इति शम्।
शान्ता महान्तो निवसन्ति सन्तो वसन्तवद् लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनानहेतुनान्यानपि तारयन्तः॥
महात्मनां कीर्तनं हि श्रेयो निःश्रेयसास्पदम् ।। " हैमवचनामृतम्'
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org