________________
७६
.......नन्दनवनकल्पतरुः २......
वैद्यः
तेनैव प्रथमं फूत्कृतम् (शामजीकुम्भकारस्य गर्दभ एकदा ग्लानोऽभवत् । अतः कुम्भकारस्तं पशुवैद्यसमीपमनयत्।) कुम्भकारः वैद्यराज! ममाऽतीव प्रियोऽयं गर्दभोऽद्य ग्लानीभूतोऽस्ति । कृपया
तं सम्यग् निरूप्य तद्रोगानुरूपमौषधं देहि । वैद्यः अरे कुम्भकार ! कुत्राऽस्ति तव गर्दभः ? पश्यामि तावत् तम् ।
(तस्य मुख-नेत्र-जिह्वादिकं पश्यति) हुम् । गभोऽयं ज्वरग्रस्तोऽस्ति । गृहाणेमां गुटिकाम् । (एकां महतीं गुटिकां
तस्मै ददाति ।) अनया गुटिकया स क्रीडामात्रेण सज्जीभविष्यति । कुम्भकारः किन्तु वैद्यराज! कथमहमेतस्मा इदमौषधं दद्याम् ।
भो जन! न काऽपि चिन्ता कार्या । सरल उपायोऽस्त्यत्र। भवानिदं ससुषिरं वंशखण्डं गृह्णातु । गृहं गत्वा प्रथममिदं वंशखण्डं तन्मुखे प्रक्षिप । तदनु गुटिकां सुषिरे स्थापयित्वोच्चैः फूत्कुरु । तथाकरणेनेयं गुटिका तन्मुखे प्रवेक्ष्यति । तस्याः परिणमनेन च
तस्य रोगो नक्ष्यति । श्वोऽत्राऽऽगत्य मे दर्शयाऽमुम् । कुम्भकारः उपकृतोऽस्मि । (द्वितीय दिने) कुम्भकार : वैद्यराज ! अरे वैद्यराज ! मृतोऽहम् ।
अहो कुम्भकार ! आगतस्त्वम् ? अपि कुशली ते गर्दभः? (तं दृष्ट्वा) अरे ! किमिति तव शरीरे इमे शोफाः । किमिति च वारं
वारं कण्डूयसे? किमभवत् तव ? कुम्भकारः (आकुलः सन्) किं कथयामि वैद्यराज ! भवदादशमनुसरता मया
ससुषिरो वंशखडो गर्दभस्य मुखे प्रक्षिप्तस्तस्मिंश्च भवद्दत्ता गुटिका
-
वैद्यः
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org