________________
......नन्दनवनकल्पतरुः २......
-
-
श्रवणवाचनानन्तरं तदुपरि चिन्तनं भवेत्, चिन्तनेन ज्ञानं वर्धते, तेन माध्यस्थ्यभावो जायते ... ||९६।। ज्ञानं यथा यथा आत्मसाद्भवति तथा तथा स्वार्थवृत्तेः स्थाने परार्थवृत्तिर्विकसति
... ||९७॥ जिनशासनं परजीवानां वात्सल्याद् भृतमस्ति, परजीवानां वात्सल्याद् जातमस्ति, परजीवानां वात्सल्येन भृतहृदयादुद्धृतमस्ति ... ॥९८॥ अर्हद्भगवद्भिः प्ररूपितं श्रुतं सप्तनयस्वरूपमस्ति, स्वानुभवादुद्धृतमस्ति, केवल्यवस्थायामुपदिष्टमस्ति ... ॥९९।। उपवास-षष्ठभक्त-अष्टभक्तादितपोभिर्लक्षशतभवेषु यावती कर्मनिर्जरा न भवति तावती कर्मनिर्जरा आत्मज्ञानसंपन्नसाधक एकस्मिन् क्षणे करोति
... ॥१०॥ अध्यात्मध्यानयोगः सर्वशास्त्राणां नवनीतमस्ति, परमसंवररूपमस्ति, यथा यथा आत्मसात् भवति तथा तथा साधकः साम्यसुखस्य अनुभवं करोति, अत्रैव च अपवर्गसुखमास्वादयति ... ॥१०१।। यथा दीपदर्शनार्थमन्यदीपस्य आवश्यकता न भवति किन्तु तेनैव दीपप्रकाशेन दीपो दृश्यते, तथा आत्मदर्शनार्थमन्यज्ञानप्रकाशस्य आवश्यकता नास्ति, किन्तु अन्तःस्थितेन ज्ञानप्रकाशेनैव आत्मो दृश्यते ... ॥१०२॥ आर्हन्त्यं सकलार्हत्सु स्थितमस्ति, सिद्धानामधिष्ठानमस्ति, आचार्योपाध्यायसाधूनां ध्येयमस्ति, नामाकृतिद्रव्यभावैः तस्य प्रणिधानं क्रमशः पापनाशस्य पुण्यलाभस्य आत्मज्ञानस्य आत्मध्यानस्य च कारणं भवति ।
... ॥१०३।। वाचकपदस्य ज्ञानं वाच्यस्य स्मरणं कारयति, वाच्यपदार्थस्य ज्ञानं वाचकपदस्य स्मरणं कारयति इति न्यायेन अर्हत्पदस्य ज्ञानमहत्परमात्मनः स्मरणं कारयति, अर्हत्परमात्मनः स्मरणं शुद्धात्मस्वरूपस्य च स्मरणं कारयति ... ॥१०४||
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org