SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरु: २...... जीवो यदा 'सम' परिणामवान् भवति तदा प्रतिक्षणं प्रत्यग्रान् नूत्नान् ज्ञानदर्शन-चारित्रपर्यायान् प्राप्नोति, ज्ञानदर्शनचारित्रपर्याया निरुपमसुखस्य हेतवः सन्ति, तस्मात् ते शास्त्रेषु कामधेनोरपि प्रभावशालिनः कथिताः ... ॥१०५।। तनुरन्तवान् अस्ति, आत्मा अनन्तोऽस्ति । संहननं मूर्तमस्ति, आत्मा अमूर्तोऽस्ति । देहो दृश्योऽस्ति, आत्मा द्रष्टाऽस्ति । तनूर्विनाशी अस्ति, आत्मा अविनाशी अस्ति । देहः कर्मजातोऽस्ति, आत्मा अजातोऽस्ति । मूल् 'मम' बुद्धिर्भवति, आत्मनि 'अहं' बुद्धिर्भवति ... ॥१०६।। शास्त्रस्य मर्म साधनया मिलति, केवलं ग्रन्थाध्ययनाज्ज्ञानस्य पूर्णता न प्राप्यते ... ॥१०७।। मुक्तिमार्गे प्रगतिं चिकीर्षुः साधकः निश्चयव्यवहारौ द्वौ आद्रियेत, द्वाभ्यां कस्यापि एकस्य ग्रहणाद् गतिर्भवति, न प्रगतिः ... ॥१०८।। नमस्कारमहामन्त्रेण चित्तस्य या विशुद्धिर्भवति सैव द्वादशाङ्ग्या भवति, द्वादशाङ्ग्या या विशुद्धिर्भवति नमस्कारमहामन्त्रेण भवति, तस्माच्चतुर्दशपूर्वधरमहात्मापि दिष्टान्तसमये यदि चतुर्दशपूर्वस्य स्वाध्यायकरणाय असमर्थो भवेत् तदा श्रीनमस्कारमहामन्त्रस्य ध्याने लीनो भवति तेन च आत्मविशुद्धि करोति ... ॥१०९।। यत्र क्रोधादिकाषायिकभावानां प्रक्षालनस्य-रोधनस्य लक्ष्यं च नास्ति ताहा औपवस्तादितपः तपो न किन्तु लङ्घनमस्ति ... ॥११०।। भगवद्वाचामावश्यकादिक्रियायाश्चनुरागः स्वर्गसुखानि ददाति, न निःश्रेयसम् ... ||१११|| अष्टाङ्गयोगस्य सारः समता अस्ति, यम-नियम-आसन-प्राणायाम-प्रत्याहारधारणा-ध्यान-समाधिस्वरूपाणि अष्टाङ्गानि समताया उपलब्ध्यै एव सन्ति ... ।।११२॥ यथा दधिसाराय दधिमन्थः क्रियते तथा समतास्वरूपसारस्य प्राप्त्यर्थमेव अनूनकयोगाभ्यासोऽस्ति ... ।।११३।। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy