________________
......नन्दनवनकल्पतरुः २......
-
23338086230038862
नागेश्वरपार्श्वनाथस्तुत्यष्टकम
88458208
-मुनिरत्नकीर्तिविजयः
भवाटवीलङ्घनसार्थवाह भव्यासुमबर्हिणवारिवाहम्। दुष्कर्मधर्मापहगन्धवाह श्रयामि नागेश्वरपार्थनाथम् ॥१॥
सान्निध्यतो यस्य शमं समेति सन्तापतापार्दितचित्तमेतद्। तं सौम्यमुद्रं प्रशमोदधिं च भजामि नागेश्वरपार्थनाथम् ॥२॥
जगत्त्रयेऽस्मिन् न शरण्यमस्ति त्वया विना नाथ ! हि किञ्चिदन्यत् । तवाऽऽश्रयो मेऽनुदिनं प्रभूयात् जिनेन्द्र ! नागेश्वरपार्थनाथ ! ॥३॥
त्वमेव मे नाथ ! मतिर्गतिश्च त्वमेव मार्गश्च पदं त्वमेव । त्वमेव नेत्रं त्वकमेव दृष्टिस्त्वमेव सर्वं मम देवदेव ! ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org