________________
......नन्दनवनकल्पतरुः २......
अभीप्सितं मे नहि किश्चिदस्ति प्रभो ! ऽवशिष्टं तव दर्शनेन । मनः परां तृप्तिमितं कृपालो ! भूयात्सदैव स्थितिरीदृशी मे ।।५।।
गतो विकारो गत एव मोहो गतः प्रमादोऽपि यतो ध्रुवं मे। त्वदीयतद्दर्शनमस्तु देव ! स्वप्ने तथा जागरणे सदैव ॥६॥
स्वीकारमुक्तां प्रतिकारमुक्तां प्रसादयुक्तां च विषादमुक्ताम् । स्वभावशुद्धां, न च मोहरुद्रां योगीन्द्र ! वन्दे तव योगमुद्राम् ॥७॥
अहोऽद्भुतं रूपमवेक्ष्य नित्य मीहे हि यस्यांह्रिको निवासम् । झरं कृपायाः शुचिहृद्यभावै रानौमि नागेश्वरपार्श्वनाथम् ॥८॥
NOD
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org