________________
......नन्दनवनकल्पतरुः २......
-
-
टीकाश्च रचितवन्तः।
तेषामेषा सर्वतोमुखप्रतिभा तु ज्ञानमूलैवाऽऽसीत् । तादृशीं तेषां प्रतिभामनुलक्ष्यैव वैक्रमीये गगनर्तुनिधिविधु(१९६०)मिते वर्षे पण्डितपदं पश्चाच्च वैक्रमीये युगर्तुनन्देन्दु(१९६४)वर्षे श्रीगम्मीरविजयजीभगवता तेभ्यो विधिपूर्वक माचार्यपदं प्रदत्तम् । अस्मिन् शतके योगोद्वहनादिविधिपूर्वकमाचार्यपदप्रापकाः प्रथमा एव तेऽभवन् । अतः एव च 'तपागच्छाधिपति' इति बिरुदमपि सार्थक् वर्त्तते तेषाम् । अतः परं तेषा 'आचार्यश्रीविजयनेमिसूरीश्वरजीमहाराज' इत्यभिधानमभूत् ।
एकदा वैक्रमीये रिपु-ऋषि-नन्द-विधु (१९७६)वर्षे उदयपुरनगरे ते चतुर्मास्यर्थे व्यराजन्त । तत्र फत्तेहसिंह नाम राजाऽऽसीत् । पूज्यपादानां दर्शनमभिलषन् स स्वकीयं मन्त्रिणं प्रथमं प्रेषितवान् । सोऽपि विद्वान् ज्ञानपिपासुश्चाऽऽसीत् । नित्यं स उपाश्रयं गत्वा श्रीहरिभद्रसूरिविरचितश्रीधर्मसङ्ग्रहणीग्रन्थस्य श्रवणं कुरुते स्म। पूज्यपादानां ज्ञानशीलादिगुणैराकृष्टः स नित्यं राज्ञः पुरः तान् वर्णयति स्म । एकदा राजा तमुवाच - 'तेषां पूज्यवर्याणामत्राऽऽगमनमिच्छामि, अतो योग्यं कुरु' सोऽपि विज्ञप्ति कृतवान् पूज्यचरणाय । किन्तु न पूज्यैः सम्मतिर्दर्शिता । ‘पूर्वीयमहापुरुषास्तु गता एवाऽऽसन् राजमहालये । अतो भवानपि ममालय-मलङ्करोतु' इत्यस्य नृपवचनस्य प्रत्युत्तरे ते ऊचुः ‘ते सर्वे तु महापुरुषा आसन् । अहं तु तेषां चरणरजस्तुल्योऽपि नाऽस्मि । अतो नोचितं तेषामनुकरणं मादृशा-नाम् ।' इति श्रुत्वा राजाऽपि विशेषण पूज्यान् प्रति श्रद्धान्वितचित्तोऽभूत् । ___ एकदा विद्वान् राष्ट्रनेता पण्डितश्रीमदनमोहनमालवीयस्तत्राऽऽगतः । राजानं चाऽपृच्छत् यद् ‘अस्तीह कोऽपि विद्वज्जनः यस्य सङ्गतिं कृत्वाऽऽनन्दं प्राप्नुयाम् ?' राजा उवाच ‘अत्र विद्धत्शिरोमणि जैनाचार्यः श्रीविजयनेमिसूरीश्वरो विराजते । अद्वितीयं वर्तते तेषां विद्वत्त्वम् ।'
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org