________________
.....नन्दनवनकल्पतरुः २......
-
चरित्र कथा
|| शासनसम्राट एकं कालजयि अस्तित्वम् ।।
-मुनिरत्नकीर्तिविजयः तेसिं नामग्गहणे पावप्पबंधा विलयं जंति ।। प्रवर्ततेऽस्मिन्पृथिवीतलेऽविच्छिन्नतयाऽद्यावधि लोकोत्तरमेतजिनशासनम् । निर्ग्रन्थाः साधुमहात्मानोऽस्य शासनस्याऽविच्छिन्नताया आधाराः सन्ति।
अद्यपर्यन्तमस्मिन्शासने नैके धुरीणा महापुरुषा अभवन् । यैः सर्वरीत्याऽस्य शासनस्योद्योतः कृतोऽस्ति। शासनस्य सर्वोपरित्वमपि यथातथमेव रक्षितं तैः । कार्यस्यास्य साफल्ये मूलमस्ति तेषां महापुरुषाणां साधुत्वम् ।
विशुद्धायाः साधुताया: विकासे मुख्य द्वे शक्ती वर्तेते - अहङ्कारशून्यं ज्ञानं निर्दम्भचारित्रं च।
प्रविशति ज्ञाने यदाऽहङ्कारो यदा च दूष्यते चारित्रं दम्भेन तदा यत्प्रवर्तते तन्न शासनप्रभावना शासनस्योद्योतो वा । किन्तु तत्कपटेन मुग्धजनान् वञ्चयित्वा स्वकीयस्य स्वार्थस्याऽहङ्कारस्य च पुष्टिरेव भवति । तत्र स्वोत्कर्ष एव शासनप्रभावनात्वेन मन्यते । यत्तु केवलं भ्रमरूपमेव । बहुशो भ्रमो वस्तुस्थित्या अधिकं मधुरोऽनुभूयते । अपरं च, सुकरमज्ञानस्य दूरीकरणं भ्रममुक्तिस्तु सुदुष्करैव । नयति भ्रमः कदाग्रहं प्रति जाड्यं प्रति चाऽज्ञानम्। ____ यावन्न विलीयतेऽहङ्कारो दम्भोऽपि यावन्नोन्मूल्यते तावन्न बाह्यवेषः साधुताया द्योतको भवति।
“त्यागात् कञ्चकमात्रस्य, भुजगो न हि निर्विषः”
साधुत्वस्य साधना नाम निर्विषीभवनस्य प्रक्रिया । सांसारिकवेषस्य त्याग-1 मात्रेणैव न कदापि साधुत्वं प्रादुर्भवति, किन्तु सांसारिकस्थितेः सर्वात्मना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org