________________
. नन्दनवनकल्पतरुः २......
Jain Education International
कथय....रे... कोऽहम
- (रम्यरेणुः) साध्वीश्रीदिव्यगुणाश्रीजी
(१) घातायोत्थापिता या मुष्टिः, कृता तयैव कचाकृष्टिः ... । (२) कुर्वता मया सन्नृत्तम्, पश्यता सुसाधुवृत्तम्, प्राप्तं च पदममृतम् । (३) गच्छन् वीरसमवसृतिम्, मार्गे लेभेऽहं च मृतिम्, प्रपेदे स्वः सुराकृतिम् ... । (४) श्रुत्वाऽहं निजश्यालकहासम्, कुर्वे स्म श्रामण्ये विलासम् ... । (५) लक्ष्यं विधाय ज्वलद्दीपवर्त्तिम्, कायोत्सर्गश्चक्रे सफलां रात्रिम्...। (६) आभीरभवे आर्पयं क्षीरम्, लेभेऽचिरं भवोदधितीरम् । (७) दर्शितो राज्ञ्या दिव्यदूतः, प्रणाशितो मया भवभूतः । (८) मा भूद् *वि-निर्यातनम्, ततश्चक्रे देहनिपातनम् ...। ( ९ ) संकल्पेन नष्टं रोगवेदनम्, तदैव कृतं संसारच्छेदनम् ...। (१०) मूर्धनि सोढा दण्डप्रहारा, लब्धा मया स्व - संपदपारा ...। (११) यत्स्थानादायातोऽहम् तत्रैव यातो नु सत्वरम् ...। (१२) भङ्क्तुं गतो मानसभ्रमम्, भग्नं च मे भवक्रमम् ...। (१३) दहन् दग्धः कर्मदारु, दीप्तं तु निजज्योतिश्चारु ...। (१४) भगिनीवचसा कृत उपवासः, संप्राप्तो मया स्वर्वासः । (१५) महापर्वणि जेमन् कूरम्, वादितं मे कैवल्यतूरम्...। (१६) मा गमद् बहु - प्राणिप्राणम्, खादित्वा शाकं कृतं तत्त्राणम्... । (१७) सेहेऽलाभपरीषहो विना दैन्यम्, प्रहतं लघु घातिकर्म सैन्यम्...। (१८) आसीन्मे यत्समराङ्गणम्, कृतं तदेव श्रामण्याङ्गणम्...। (१९) यद्यपि भगवदाज्ञा भग्ना तदपि भूता शिववधूर्मना...।
'विः पक्षी ।
७१
For Private & Personal Use Only
www.jainelibrary.org