________________
.नन्दनवनकल्पतरु: २......
MORNINGaopalgass
-
00
(वाचकानां प्रतिभाव तत्रभवति भगवति
(१)
Date: 12-7-1999 आचार्यविजयशीलचन्द्रसूरिपादे
शतं नतयः । नन्दनवनकल्पतरु: प्राप्तः । सकुतूहलमवालोकि च ।
चतुर्विशतिजिनगीतयो मया सप्रमोदं तद्गतिलयानुसारं मन्दं मन्दं गीताः । एतादृशीनां गीतीनां रचना नातीवसरले ति स्वानुभवेनाहं सम्यगेव जानामि । गत्यनुसारी स्वच्छ: अन्तिमाक्षरप्रासः, गायनानुकूला धाटी, गेयरचनायै प्रशस्तं छन्दः - इत्यादिसद्गुणैः समुपबृंहिता एता गीतयः कं नाम भावुकं नानन्दाम्बुधौ तल्लीनं विदध्युः? कन्नडभाषायां षट्पदीछन्दः सुतरां प्रसिद्धम् । तेन छन्दोगतिप्रकारेण सादृश्यं वहदिव वर्तमानं द्वितीयगीतिगतं लयलास्यं समवधार्य विस्मितोऽस्मि।
(वार्धकषट्पदीत्युच्यते कन्नडे ।)
कर्णाटकसङ्गीतपद्धत्यां मुद्दुस्वामिदीक्षितप्रभृतिभिः, “कमलानवावरण"प्रभृति -समुच्चयात्मिका: कृतयः रचिता वर्तन्ते, यत्र सर्वासामपि कृतीनां गायनक्रमो निश्चितः । (अर्थात् सर्वासामपि कृतीनां परस्परेण दृढः सम्बन्धोऽस्ति ।) तद्वदेव तत्रभवता रचितोऽप्ययं कृतिगुच्छकः' आदितः आन्तं यावद् अक्षुण्णं सम्बन्धं गानानुस्यूततारूपं रक्षति । इदमपरं वैशिष्ट्यमत्र - यच्चतुर्विंशतिगीतिषु चतुर्विंशतिगतिप्रकाराः पार्थक्येनैव प्रयुक्ताः । संस्कृतपण्डिताः सङ्गीताभिज्ञाः प्रायेण न भवन्ति । परन्तु अत्र केचिदङ्गुलीगणनीया विरलोदाहरणत्वेन प्राप्यन्ते । तादृशां मध्ये तत्रभवानन्यतमः । संस्कृतेन आधुनिककाले रचिते गीतिवाङ्मये गुच्छकस्य भवद्रचितस्य शोभनं स्थानं विद्यते ।
तत्रभवता मुनिकल्याणकीर्तिना विरचितं पूज्यविजयनन्दनसूरीश्वराणां जीवनं प्रभावपूर्ण मस्ति । तेषां पाण्डित्यमनितरसाधारणं तथाऽपि विनयातिशयेन सर्वजनसेव्यत्वमासीदिति ज्ञात्वा सत्कथाश्रवणजमानन्दमनुभूतवानस्मि ।
'न प्राप्नुवन्ति यतयो रुदितेन मोक्षं, मोक्षायतिं न परिहासकथा रुणद्धि' इत्याभाणकः । तमाभाणकं चरितार्थयितुमिव वर्तते “मधुरेण समापयेत्” ।
जैनसाधुभगवतामीदृिशं सांस्कृतं नवीनं वाङ्मयं बाढमनल्पसाधुवादपात्रम् ।
प्रास्ताविके “मधुरेण समापयेत्” इति विभागस्य प्राथमिकप्रयत्नजन्यत्वमुक्त्वा यत्तत्र सम्भवन्तीनां त्रुटीनां सूचनायै विज्ञप्तं - तत्रोच्यते - तस्मिन् विभागे भाषा शुद्धैव । कोऽपि दोषो नास्त्येव । . . - नन्दनवनकल्पतरोः साहित्यपुष्पाणां सुरभिलो मारुतः सर्वत्र सहृदयसमवाये लब्धसञ्चारो भूयादिति सप्रमोदमाशासानो
- एस्. जगन्नाथः
-
-
...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org