SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ......नन्दनवनकल्पतरु: २. (पथिकः कोऽपि गच्छति मार्गे । तत्पादेिकं त्रिचक्रकं लघुयानं प्रसरति । ___ तं संरुध्य) पथिकः (चालकं प्रति) - भो ! अग्नियानस्थलं जिगमिषुरहम् । चालक: आम् । उपविश। पथिकः कियन्मूल्यं तेऽभिप्रेतमिति कथय । चालकः रूप्यकचतुष्कम् ।। पथिकः इयत्? रूप्यकद्वयमेवोचितम् । चालकः न न । को नयेत् रूप्यकद्वयेनैव । पथिकः अहो ! अलं प्रश्नेनैतेन । त्वमुपविश, अहं नेष्यामि । जनः (कार्यरहित एको जनः कार्यार्थमितस्ततो भ्रमति । कार्यं च मृगयते । एकस्यां विपणौ गत्वा-) (स्वामिनं प्रति) अस्ति किमपि मदुचितं कार्यं तव विपणौ ? यदि स्यात्तर्हि देहि मे स्थानम् । स्वामी आम्, अस्ति । श्वस्त आगन्तव्यं त्वया। जनः किं वेतनं दास्यति भवान् । स्वामी षण्मासपर्यन्तं द्विसहस्रं रूप्यकाणि । पश्चाच्च चतुःसहस्रम् । जनः यद्येवमस्ति तर्हि अहं षण्मासात्पश्चादेवाऽऽगमिष्यामि । सार्द्धचतुरः अहं राष्ट्रस्य सेवां कर्तुमिच्छामि । देहि मे मार्गदर्शनम् । चतुरः मार्गस्य प्रस्तरो मा भूयाः-इत्येव त्वया महती सेवा कृता स्यात् । - मुनिरत्नकीर्तिविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521002
Book TitleNandanvan Kalpataru 1999 00 SrNo 02
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages100
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy