Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 22
________________ मिशेल बृहद्वतिः । आचार्यः माह सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं कत्तो ? । सव्वं च निज्जरत्थं सत्थमओऽमंगलमजुत्तं ॥१९॥ ॥२०॥ बुद्ध्या शास्त्रे त्रिधा विभक्त तस्य शाखस्यान्तरालं तदन्तरालं तस्य परिकल्पनं कुतः संभवति-न कुतश्चिदित्यर्थः । यथा । हि संपूर्ण मोदकादिवस्तुनि त्रिखण्डे विकल्पितेऽन्तरालं न संभवति तथाऽत्रापि, इति कस्याऽमङ्गलता स्यात् । इति । यदि नाम शास्त्रं त्रिधा विभक्तम् , तथापि कथं तस्य सर्वस्याऽपि मङ्गलता ? इत्याह- सर्व चावश्यकादि शास्त्रं निर्जरार्थ कर्मापगमरूपा निजेरा ROH अथेः प्रयोजनमस्येति निर्जरार्थम । तथा च सति तपोवत स्वयमेव मङ्गलमिदमिति सामा गम्यते । यदि नाम निजेरार्थत्वात् तपवित् खयमेवाऽऽवश्यकादिशास्त्रं मङ्गलम् । ततः किम् , इत्याह-अतोऽमङ्गलमयुक्तम, यतः सर्वमेव शास्त्रं मङ्गलम् । अतो मालास्मान तस्मिंत्रिधा विभक्ते यदुच्यते 'अपान्तरालयममङ्गलम्' तदयुक्तमित्यर्थः । यदि हि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमालाडव्याप्तत्वात् कापि तदमङ्गलं भवेत् , यदा तु सर्वमपि स्वयमेव तद् मङ्गलम् , तदा कापि तस्याऽमङ्गलता न युक्तेति भावः॥ इति गाथार्थः ॥ १९॥ अथ प्रेरकः पाहजेइ मंगलं सयं चिय सत्थं तो किमिह मंगलग्गहणं ? । सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं ॥२०॥ यदि हि स्वयमेव शास्खं मङ्गलमिष्यते तदा त मंगलमाईए मज्ने' इत्यादिवचनात किमिह मङ्गलग्रहणं क्रियते', खत एव मङ्गल मालविधानस्याऽनर्थकत्वादिति भावः । इति परेण प्रेरिते गुरुराह- "सिस्सेत्यादि' शिष्यस्य मतिः शिष्यमतिस्तस्या मङ्गलपरिग्रहः सोऽथेः प्रयोजनमस्य तत् तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधानं मङ्गलाभिधानमित्यर्थः । इदमुक्तं भवतिशास्त्रादनथान्तरभूतमेव मङ्गलमुपादीयते, नार्थान्तरमिति मागेवोक्तम , नन्दिर्हि मङ्गलत्वेनाभिधास्यते, सा च पश्चज्ञानात्मिका, ततः शास्त्राण्यावश्यकादीनि सर्वाण्यपि श्रुतज्ञानरूपतया नन्द्यन्तर्गतान्येव. नन्दिरपि श्रतरूपत्वेनाऽऽवश्यकादिशास्त्रान्तर्गतैव । तस्माद् नन्देमङ्गलत्वनाऽभिधाने शास्त्रान्तर्गतमेव मङ्गलमभिहितं भवति । तत्रापि नाऽमङ्गलस्य सतः शास्त्रस्य मङ्गलताऽऽपादनाथ तदभिधानम् , १ शाने विधा विभक्त तदन्तरालपरिकल्पनं कुतः । सर्वं च निर्जरार्थ शास्त्रमतोऽमङ्गलमयुक्तम् ॥ १९॥ २.यदि महलं. स्वयमेव शास्त्रम्, तदा किमिह मङ्गलग्रहणम् ।। शिष्यमतिमङ्गलपरिप्रहार्धमानं तदभिधानम् ॥ २०॥ ३ गाथा १३ । S For Personal and Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202