Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 34
________________ विशे० ॥३२॥ अत्राऽर्थे उपपत्तिमाह 'हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअणारहिओ। न य सो मङ्गलमिळं तयत्थसुन्नोत्ति पावं व ॥४३॥ जानननुपयुक्तश्चेत्येतदवस्तु इत्यस्यामनन्तरातिक्रान्तगाथापर्यन्तकृतप्रतिज्ञायामयं हेतुः। कः?, इत्याह-विरुद्धधम्मत्तणा हि त्ति' विरुद्धौ धौं यत्र तत् तथा तद्भावस्तस्माद् विरुद्धधर्मत्वादिति । दृष्टान्तमाह- यथा जीवश्चेतनारहितः । इदमुक्तं भवति- यथा जीवश्चेतनारहितश्च, माता च वन्ध्या चेत्यादि विरुद्धधर्माध्यासादवस्तु, एवं ज्ञायकश्चाऽनुपयुक्तश्चेत्येतदप्यवस्त्वेव । भवतु वा ज्ञायकोऽनुपयुक्तश्च, तथापि नास्माकमसौ मङ्गलत्वेनेष्टः, तदर्थशून्यत्वाद् मङ्गलार्थशून्यत्वात् , पापवदिति । भावमङ्गलग्राहिणो कमी कथं द्रव्यमङ्गलमिच्छन्ति ?, इति भावः । इति गाथार्थः ॥४३॥ तदेवं विचारितं नौद्रव्यमङ्गलम् , तथा च सति समर्थितमागमतो द्रव्यमङ्गलम् । अथ नोआगमतस्तदभिधीयते । तच्च ज्ञशरीरभव्यशरीर-तव्यतिरिक्तभेदात् त्रिधा । तत्र ज्ञशरीर-भव्यशरीरलक्षणभेदद्वयमाह मैंगलपयत्थजाणयदेहो भव्वस्स वा सजीवोत्ति । नोआगमओ दव्वं आगमरहिओ त्ति जं भणिअं॥४४॥ 'नोआगमओ दवं त्ति' नोआगमतो ज्ञशरीरं द्रव्यमङ्गलमित्यर्थः । कः ?, इत्याह- मङ्गलपदार्थज्ञस्य देहः, इदमुक्तं भवतिइह मङ्गलपदार्थः पूर्वं येन स्वयं सम्यग् विज्ञातः; परेभ्यश्च प्ररूपितः, तस्य संबन्धी जीवविप्रमुक्तः सिद्धशिलातलादिगतो देहोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो द्रव्यमङ्गलमुच्यते । नोशब्दस्यह सर्वनिषेधवचनत्वात् ; आगमस्य च सर्वथात्राऽभावाद् नोआगमता द्रष्टव्या, अतीतमङ्गलपदार्थज्ञानलक्षणाऽऽगमपर्यायकारणत्वात् तु द्रव्यमङ्गलता, यथाऽतीतघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति । 'भव्वस्स व त्ति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलपदार्थज्ञानयोग्यस्य संबन्धी 'देहः' इति वर्तते, स जीवः सचेतनो नोआगमतो भव्यशरीरद्रव्यमालमित्यर्थः । इदमत्र हृदयम्- य इदानीं मङ्गलपदार्थ न जानीते, भविष्यति तु काले ज्ञास्यति तस्य संबन्धी सचेतनो देहो भविष्यत्कालनयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थज्ञानाधारत्वाद् नोआगमतो भव्यशरीरद्रव्यमङ्गलमिति । अत्रापि नोशब्दस्य सर्वनिषेधपरत्वात् ; आगमस्य चेदानीमभावाद् नोआगमता समवसेया । भविष्यत्काले हेतुर्विरुद्धधर्मत्वाद् हि जीव इच घेतनारहितः । न च स मङ्गलमिष्टं तदर्थशून्य इति पापभिव ॥ ३ ॥ २ मङ्गलपदार्थज्ञायकदेहो भय्यस्य वा सजीव इति । नोआगमतो द्रव्यमागमरहित इति यद् भणितम् ॥ ४५ ॥ DOGSecreoRRP rammarASTARTER For Peso Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202