Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 180
________________ विशेषा० ॥१७८॥ Jain Educationa Internati अन्ये त्वेतानष्टाविंशतिभेदानन्यथा पूरयन्ति, तन्मतमुपदर्शयति- 'केइ तित्यादि' केचित् पुनराचार्या एतस्मिन्नेव श्रुतनिश्रिते मतिज्ञानभेदसमुदये व्यञ्जनावग्रहभेदचतुष्टयवर्जे " उप्पत्तिया, वेणईया, कम्मिया, पारिणामिया " इत्यादिनाऽन्यत्र प्रागत्रापि च प्रतिपादितस्वरूपमश्रुतनिश्रितमौत्पत्तिक्यादि बुद्धिचतुष्टयं क्षिप्त्वा मीलयित्वा, एवमष्टाविंशतिविधं सर्वमपि मतिज्ञानमिति भाषन्ते । अयं हि तेषामभिप्रायः- मतिज्ञानस्य संपूर्णस्येह भेदाः प्रतिपादयितुं प्रक्रान्ताः, यदि चाऽश्रुतनिश्रितं बुद्धिचतुष्टयं न गण्यते तदा श्रुतनिश्रितरूपस्य मतिज्ञानदेशस्यैवैतेऽष्टाविंशतिभेदाः प्रोक्ता भवन्ति, न तु सर्वस्यापि यदा तूतन्यायेन श्रुतनिश्रितम्, अश्रुतनिश्रितं च मील्यते तदा सर्वस्याऽपि तस्य भेदाः सिद्धा भवन्ति । ननु साधूक्तं तैः केवलमेवं सति व्यञ्जनावग्रहचतुष्टयं क क्रियताम् ? न ह्येतदपि विक्रीयमाणं खलखण्डमात्रेण क्रीतम्, किन्त्विदमपि मतिज्ञानान्तर्गतमेव । ततोऽस्माद् निष्काश्यमानं वराकमिदं काऽवस्थितिं वनातु ?, इत्याशङ्क्याह- 'जमवग्गहो इत्यादि' यद् यस्माद् व्यञ्जनार्थावग्रहभेदतो योऽयमवग्रहो द्विभेदः प्रागुक्तः सोऽवग्रहसामान्येन गृहीतोऽवग्रहसामान्येऽन्तर्भावितः भवति च विशेषाणां सामान्येऽन्तर्भावः, यथा सेनायां गजादीनाम्, वनादौ च धव- खदिरादीनाम् । अतोऽवग्रहस्य सामान्यरूपतयैकत्वादवग्रहे- हा ऽपाय-धारणानामिन्द्रिय-मनो भेदेन प्रत्येकं षड्विधत्वाच्छ्रुतनिश्रितमतिज्ञानस्य चतुर्विंशतिरेवं भेदाः, अश्रुतनिश्रितस्य तु बुद्धिचतुष्टयलक्षणाश्चत्वारः, इत्येवं सर्व मतिज्ञानमष्टाविंशतिभेदं सिध्यति । इति कषांचिद् मतम् ।। इति गाथायार्थः ॥ ३०० ॥ ३०१ ।। ३०२ ।। एतच्च तन्मतमयुक्तम् । कुतः १, इत्याह इरित्ताभावा जम्हा न तमोग्गहाईओ । भिन्नं तेणोग्गहाइसामण्णओ तैयं तग्गयं चैव ॥ ३०३ ॥ चतुभ्र्योऽवग्रहे-हा-ऽपाय-धारणावस्तुभ्यो व्यतिरिक्तं चतुर्व्यतिरिक्तं तस्य चतुर्व्यतिरिक्तस्याश्रुतनिश्रितस्याभावात् कारणाद् यस्माद् यतो न तदश्रुतनिश्रितमवग्रहादिभ्यो भिन्नम् । ततः किम् ?, इत्याह- तेन कारणेनावग्रहादिसामान्यादवग्रहादिसामान्यमाश्रित्य 'तयं तग्गयं चैव त्ति' तेष्ववग्रहादिसंवन्धिष्पष्टाविंशतिभेदेष्वन्तर्गतं प्रविष्टमन्तर्भूतं तदन्तर्गतमेवाऽश्रुतनिश्रितं बुद्धिचतुष्टयम् । अतः किमिति व्यञ्जनावग्रहचतुष्टयं पातयित्वाऽश्रुतनिश्रितं बुद्धिचतुष्टयं पुनरपि प्रक्षिप्यते ?, इत्यभिप्रायः । इदमुक्तं भवति- 'सोइंदियाइभेएण छब्बिहा १. छ. ज. 'दये' । २ औत्पत्तिकी, वैनयिकी, कार्मिकी, पारिणामिकी । ३ नन्द्यध्ययन सूत्रे । ४ चतुर्व्यतिरिक्ताभावाद यस्माद् न तदवग्रहादयः । भिन्नं तेनाऽवग्रहादिसामान्यतस्तद् तद्गतमेव ॥३०३॥ क.ग. 'य तं त' घ. 'गयं त' । ६ गाथा ३०० । For Personal and Private Use Only बृहद्वृत्तिः । |1120611 www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202