Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वत्तिः ।
॥१९॥
Poभवति- सम्यग्दर्शनसद्भावेऽस्य सर्वदैव ज्ञानोपयोगमात्र तावदस्ति । ततश्च संशयादिकालेऽपि मौलज्ञानोपयोगतो ज्ञान्येषाऽसौ, यथा विशेषा० दारिद्रयादिसद्भावेऽपीन्द्रज्ञानोपयोगतो ज्ञाता इन्द्र एव, यथा वा रसकूपिकायां महारसे निपतितं तृणादिकमपि तद्रूपतामेवोपगच्छति ॥
इति गाथार्थः ॥ ३२५॥
अथ मिथ्यादृष्टेरप्येवं भविष्यति, इत्याशय निराकुर्वनाहतुल्लमियं मिच्छस्स वि सो सम्मत्ताइभावसुन्नो त्ति । उवओगम्मि वि तो तरस निच्चमन्नाणपरिणामो॥ ३२६ ॥
ननु यत्सम्यग्दृष्टानोपयोगतो ज्ञानमुक्तम् , तदिदं मिथ्यादृष्टेरपि तुल्यं समानम् , तस्याऽपि ज्ञानोपयोगसद्भावात् । तदयुक्तम् । कुतः?, इत्याह- यतः स मिथ्यादृष्टिः सम्यक्त्वादिभावशून्यः- सम्यक्त्वादयो ये भावाः पदार्थाः, आदिशब्दाद् मति-श्रुतज्ञानादिपरिग्रहः, तैःशून्यो विरहित इत्यर्थः, इति कुतोऽस्य ज्ञानोपयोगः?, सम्यक्त्वादिभावमन्तरेण तस्याऽभावात् , तद्भावे च मिथ्यादृष्टित्वायोगात् । ततस्तस्य मिथ्यादृष्टरुपयोगेऽपि नित्यमज्ञानपरिणाम एव, महाविषादप्यतिक्रान्तरूपमज्ञानपरिणामं विहाय नान्यः कोऽप्यस्योपयोगोऽस्तीति भावः । अतोऽस्य सदैवाऽज्ञानपरिणामः, सम्यग्दृष्टेस्तु ज्ञानपरिणामः, इति कुत उभयोस्तुल्यता ? ॥ इति गाथार्थः ॥ ३२६ ॥ एतदेव भावयति
जं निन्नओवओगे वि तस्स विवरीअवत्थुपडिवत्ती । तो संसयाइकाले कत्तो नाणोवओगो से ? ॥ ३२७॥
यतो निर्णयोपयोगकालेऽपि तस्य मिथ्यादृष्टेः सर्वज्ञोक्तविपरीतवस्तुप्रतिपत्तिरेवोपजायते । ततो निर्णयकालेऽप्यनुपजातो ज्ञानपरिणामः संशयादिकाले कुतस्तस्य वराकस्य भविष्यति । अतो मुधैव सम्यग्दृष्टेरिव मिथ्यादृष्टेरपि संशयादीनां ज्ञानत्वापादनाय खिद्यसे त्वपिति भावः ॥ इति गाथार्थः ।। ३२७॥
तदेवं सम्यग्दृष्टिसंबन्ध्येच मतिज्ञानमिह विचार्यत इति चेतास निधाय 'अन्भुवगंतुं भण्णइ नाणं चिय संसयाईया' इत्यादिना ग्रन्थेन साधितं संशयादीनां ज्ञानत्वम् । ततश्च संशयादिभावेऽपि नावग्रहादीनामज्ञानतेति स्थितम् । यदि वा संशयादिभावेनावग्रहादीनां यदज्ञानत्वं परेण प्रेर्यते, तदभिप्रायापरिज्ञानादाकाशरोमन्थनमेव न ह्यस्माभिर्ज्ञानमेवेह विचारयितुमारब्धं, येनाऽज्ञानत्वापादनं
, तुल्यमिदं मिथ्या( दृष्टेः अपि स सम्यक्त्वादिभावशून्य इति । उपयोगेऽपि ततस्तस्य नित्यमज्ञानपरिणामः ॥ ३२६ ॥ २ यनिर्णयोपयोगेऽपि तस्य विपरीतवस्तुप्रतिपत्तिः । ततः संशयादिकाले कुतो ज्ञानोपयोगस्तस्य ? ॥ ३२७ ॥ ३ घ.छ.ज. रीयव' । ४ गाथा ३१४ ।
॥१९३॥
HAR
For Personal and Private Use Only
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202