Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 198
________________ अथ पुनरपि मिथ्यादृष्टः सम्यग्दृष्टितुल्यतामाशङ्कय निराकुर्वन्नाहविशेषा० जेइ सो वि तस्स धम्मो किं विवरीयत्तणं ति, तं न भवे । धम्मो वि जओ सब्वो न साहणं किंतु जो जोग्गो॥३३॥ बृहद्वत्तिः। यो मिथ्याज्ञान-विपरीतक्रियालक्षणो धर्मो मिथ्यादृष्टिना मोक्षसाधकत्वेनाऽभ्युपगतः, यदि सोऽपि तस्य सम्यग्ज्ञानादिरूपस्य सम्यग्दृष्ट्यभ्युपगतस्य मोक्षसाधनस्य धर्मः, तर्हि मिथ्यादृष्टेः किं विपरीतत्वम् ? न किञ्चिदित्यर्थः । अयमत्र भावार्थ:-'ईय सबमयं सव्वं समद्दिछिस्स जं वत्थु इति वचनात् 'सर्वमयं सर्वमेव वस्तु' इति भवतां सिद्धान्तः। ततश्च सम्यग्ज्ञान-दर्शन-चारित्रसमुदायरूपस्य साधनस्य यथा सम्यग्ज्ञानादिको धर्मः, तथा मिथ्याज्ञानादिकोऽपि, अन्यथा सर्वस्य सर्वमयत्वत्यागप्रसङ्गात् । अतः सम्यग्दृष्टिना मोक्षसंसिद्धये यस्य साधनस्य धर्मोऽङ्गीकृतः, मिथ्याष्टिनाऽपि तत्सिद्धये तस्यैव धर्मः स्वीकृतः, धर्मग्रहणद्वारेण च कथञ्चित् तस्य धर्मिणो ग्रहणम् । अतः किं नाम मिथ्यादृष्टेर्विपरीतत्वम् । । इति परेणोक्त आचार्यः पाह- 'तं न भवे ति तदेतत् त्वदुक्तं न भवेद् न युज्यते । कुतः १, इत्याह- 'धम्मो वि जओ इत्यादि इदमुक्तं भवति- अनन्तधर्माध्यासितस्यापि वस्तुनो न सर्वेऽपि धर्मा एकमर्थ साधयन्ति, किन्तु योग्यतानुरूपेण कोऽपि कश्चिदेवेति । यथा हि कलश-मल्लक-कपाल-भुम्भलकादीनां साधारणेऽपि मृद्धर्मत्वे न कलशवद् (म्भलकादयोऽपि मङ्गल-जलधारणादिकार्येषु व्याप्रियन्ते, नापि सुवर्णधर्मत्वे समानेऽपि कुण्डलवद् नूपुरमपि कर्णालङ्करPणाय नियुज्यते, न चापि शालि-दालि-घृतादिधर्मत्वे तुल्येऽपि रसवद् गन्धादयोऽपि तृप्ति-देहपुष्ट्यादीनि साधयन्ति । एवं यद्यपि मोक्षादिसाधनस्य मिथ्याज्ञानादिकोऽपि व्यावृत्तिरूपतया धर्मः, तथापि नासौ मोक्षं साधयति, किन्तु तद्विपक्षभूतं संसारादिकमेव, मोक्षादिकं तु यत्साधनयोग्यः सम्यग्ज्ञानादिको धर्मः स एव साधयति । ततः सम्यग्दृष्टिगृहीतेऽप्यनन्तधर्माध्यासिते मोक्षादिसाधने वस्तुनि योग्यमेव सम्यग्ज्ञानादिकं धर्म तत्साधनाय व्यापारयति, नाऽयोग्यं मिथ्याज्ञानादिकम् । मिथ्यादृष्टिस्तु मिथ्यात्वोदयतिमिरतिरस्कृतभावदृष्ठित्वेन तत्र तस्याऽयोग्यतामपश्यंस्तमेव व्यापारयतीति । अतः साधनविपर्ययं करोति, इत्यज्ञानमेव तस्य ॥ इति गाथार्थः ॥ ३३१ ॥ एतदेव भावयन्नाहजोग्गा-जोग्गविसेसं अमुणतो सो विवजयं कुणइ । सम्मट्ठिी उण कुणइ तस्स सट्ठाणविणिओगं ॥ ३३२ ॥ ॥१९ , यदि सोऽपि तस्य धर्मः किं विपरीतत्वमिति, तद् न भवेत् । धर्मोऽपि यतः सर्वो न साधनं किन्नु यो योग्यः ॥ ३३१ ॥ २ गाथा ३२० । ३ घ.ज. 'भुम्भुल' । ४ क.ग. 'धनद'। ५ योग्यायोग्यविशेषमजानन् स (मिथ्यादृष्टिः) विपर्ययं करोति । सम्यग्दृष्टिः पुनः करोति तस्य स स्थानविनियोगम् ॥३३२॥ मास्टरलायन SHAR JABEducatorisinterin For Personal Use Only

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202