Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१९७॥
Jain Educations Internati
व्याख्यातार्थैव, नवरं सम्यग्दृष्टिर्योग्यमयोग्यं च साधनधर्म जानाति, ज्ञात्वा च स्थाने व्यापारयति । तथा च सम्यगाराको भूत्वा समीहितफलभाग् भवति । उक्तं च
"काले सिक्ख नाणं जिणभणिअं परमभत्तिराएणे । दंसणपभावगाणि अ सिक्ख सत्थाई कालम्मि ॥ १ ॥ काले य भत्तपाणं गवेसए सयलदोसपरिमुद्धं । आयरियाईणट्टा पवयणमायासु उवउत्तो ॥ २ ॥
एवं समायरंतो काले कालं विसुद्धपरिणामो । असवन्तजोगकारी सलाहणिज्जो य भुवणम्मि || ३ || सयलसुरा - सुरपणमिअजिण गणहरभणियकिरियविहिकुसलो । आराहिऊण सम्मत्त-नाण चरणाई परमाई ॥ ४ ॥ सत्तट्टभवग्गहणभंतैरकालम्मि केवलन्नाणं । उप्पाडिऊण गच्छइ विहुयमलो सासयं मोक्खं ॥ ५ ॥
तत्थ य जर- जम्मण-मरण-रोग-तण्हा-छुहा-भय-विमुक्को । साइ अपज्जवसाणं कालमणतं सुहं लहइ" ॥ ६ ॥ इत्येवमादि || इति गाथार्थः ॥ ३३२ ॥
तदेवं चालना - प्रत्यवस्थानादिभिर्व्याख्याता अवग्रहादयः । अथ तेषामेव कालनिरूपणार्थमाह नियुक्तिकारः
उग्गहो एवं समयं ईहा वाया मुहुत्तमंतं तु । कालमसंखं संखं च धारणा होइ नायव्वा ॥ ३३३ ॥
अवग्रह इति व्याख्यानाद् नैश्वयिकोऽर्थावग्रहो द्रष्टव्यः । स किम् ?, इत्याह- सर्वजघन्यः कालविशेषः समयः, तमेकं समयं भवति, न परतः । ईहा पायौ प्राग्निर्णीत स्वरूपौ 'मुहुत्तमतं त्विति' अन्तःशब्दो मध्यवचनः, ततश्च जघन्यतः, उत्कृष्टतश्च मुहूर्तातर्भि मुहूर्त ज्ञातव्यौ भवतः - अन्तर्मुहूर्तमित्यर्थः । तुश्चकारार्थः । चकारश्चानुक्तसमुच्चये । ततश्च व्यञ्जनावग्रह व्यावहारिकार्थावग्रहौ
१ काले शिक्षते ज्ञानं जिनभणितं परमभक्तिरागेण । दर्शनप्रभावकाणि च शिक्षते शास्त्राणि काले ॥ १ ॥ काले च भक्तपानं गवेषते सकलदोषपरिशुद्धम् । आचार्यादीनामर्थाय प्रवचनमातृषूपयुक्तः ॥ २ ॥ एवं समाचरन् काले काले विशुद्धपरिणामः । आस्त्रवान्तयोगकारी श्लाघनीयश्च भुवने ॥ ३ ॥ सकलसुरासुरप्रणतजिन-गणधरभणितक्रियाविधिकुशलः । आराध्य सम्यक्त्व ज्ञान चरणानि परमाणि ॥ ४ ॥ सप्ता-ऽष्टभवग्रहणाभ्यन्तरकाले केवलज्ञानम् । उत्पाद्य गच्छति विधुतमलः शाश्वतं मोक्षम् ॥ ५ ॥
तत्र च जरा-जन्म-मरण-रोग-तृष्णा क्षुद्-भय-विमुक्तः । साचपर्यवसानं कालमनन्तं सुखं लभते ॥ ६ ॥ २. क.ग. 'णं' । ३ घ. 'तरे का' ४ क. ग. 'लं नाणं' ।
५ अवग्रह एक समयमीहा पायौ मुहूर्तान्तस्तु । कालमसंख्यं संख्यं च धारणा भवति ज्ञातव्या ॥ ३३३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१९७॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 197 198 199 200 201 202