Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
कशाहOOS
बृहदत्तिः ।
विशेषा ॥१९५॥
ग्रहादिभेदनिरूपणात् पूर्वमेव निर्दिष्टं नन्द्यध्ययनमूत्रकारेण । किं निर्दिष्टम् ?, इत्याह- 'अविसेसिया मइ च्चिय त्ति' सूचकत्वात् | सूत्रस्य, अनेनाऽऽलापकः सर्वोऽपि सूचितो द्रष्टव्यः, तद्यथा-" अविसेसिंआ मई मइनाणं च, मइअन्नाणं च, विसेसिंआ मई- सम्मदि- हिस्स मई मइनाणं, मिच्छदिहिस्स मई मइअन्नाणं" इति । ततो यस्मादागम एवमुक्तम् , तस्मात् सम्यग्दृष्टेः सर्वापि मतिर्ज्ञानं, मिथ्यादृष्टेस्त्वज्ञानम् ।। इति गाथार्थः ।। ३२९ ॥
अथ 'सदसद-' इत्यादिना प्रागुक्तामपि सम्यग्दृष्टेनित्वे, मिथ्यादृष्टेरज्ञानत्वे पुनरपि युक्तिमाहविवरीअवत्थुगहणे जं सो साहणविवजयं कुणइ । तो तस्स अन्नाणफलं सम्मदिट्ठिस्स नाणफलं ॥३३०॥
इह मिथ्यादृष्टिस्तावद् मिथ्यात्वोदयविपर्यस्तत्वात् त्रिभुवनगुरुपणीतवस्तु विपरीतं सर्वमेव गृह्णाति । ततोऽसौ विपरीतवस्तुग्रहणे विपरीतवस्तुग्रहणशीलतयेत्यर्थः, यस्मात् साधनविपर्ययं करोति- साध्यन्ते मोक्षादयोऽनेनेति साधनं ज्ञान-दर्शन-चारित्रादि तस्य विपर्ययं व्यत्ययं करोति, अज्ञान-मिथ्यात्वा-विरत्यादीन्यपि मोक्षादिसाधकत्वेनेच्छतीत्यर्थः । ततस्तस्य ज्ञानमज्ञानफलमेव, अज्ञानस्यैव फलं नरकप्राप्त्यादिकं यस्मात् तदज्ञानफलम् , अज्ञानवद् वा फलति नरकादिदुःखं प्रसूत इत्यज्ञानफलम् । तत्फलत्वाचाज्ञानमेवेति भावः । सम्यग्दृष्टस्तु ज्ञानं ज्ञानफलमेव, ज्ञानस्यैव फलं यस्मात् , ज्ञानवद् वा फलति खगादिसुखमिति ज्ञानफलं, तत्फलत्वाच ज्ञानमेवेति हृदयम् । इदमुक्तं भवति- विपरीतवस्तुग्राही मिथ्यादृष्टिोक्षादेः साधनं सम्यग्ज्ञान-क्रियारूपं विपरीतं मन्यते- “वेदविहिता हिंसा न दोषाय"
"षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनाद् न्यूनानि पशुभिस्त्रिभिः " ॥१॥
" हत्वा भूतसहस्राणि कृत्वा पापशतानि च । स्नात्वा गङ्गाजले पूते यान्ति जीवाः शिवालयम् " ॥१॥ इत्यादिभूतघातनिबन्धनत्वेन संसारहेतोमिथ्याज्ञानस्य मोक्षादिसाधकत्वेनाऽभ्युपगमात् , जलस्नान-पशुवध-पुत्रसन्ततिनिबन्धनमैथुनादिक्रियायां च तत्साधकत्वेन प्रवर्तनात् । अतस्तस्य ज्ञानमप्यज्ञानफलत्वेनाऽज्ञानमेव । सम्यग्दृष्टस्तु सम्यग्ज्ञान-क्रियासंयोगेन मोक्षादी प्रवृत्तेनिफलत्वेन ज्ञानमेव ।। इति गाथार्थः ॥ ३३०॥ १ अविशेषिता मतिमंतिज्ञानं च, मत्यज्ञानं च; विशेषिता मतिः- सम्यग्दृष्टेर्मतिर्मतिज्ञानम् , मिथ्यादृष्टर्मतिर्मत्यज्ञानम् । २ घ. छ.ज, 'सिया म' । ३ गाथा ३१९ । ४ विपरीतवस्तुग्रहणे यत् स साधनविपर्ययं करोति । ततस्तस्याऽज्ञानफलं सम्यग्दृष्टानफलम् ॥ १३० ॥ ५ घ, ज, रीयब'। ६ क.ग, 'णाण'।
॥१९॥
JanEducational InternationRVE
For Personal and Private Use Only
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202