Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 201
________________ विशेषा० ॥१९९॥ इति चेत् । उच्यते- नन्द्यध्ययनागमेऽत्रान्तरे तस्याः प्रतिपादितत्वादिह स्वस्थानत्वमिति । न केवलमसावेवाभिधास्यते, किन्तु प्रसङ्गतः ।। सर्वेन्द्रियाणां विषयप्रमाणं चाहं भणिष्यामि ॥ इति गाथार्थः ॥ ३३५॥ बृहद्वृत्तिः । कया पुनर्गाथया नियुक्तिकृताऽसौ भण्यते ?, इत्याह पुढे सुणेइ सदं रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं च बहपुढे वियागरे ॥ ३३६ ॥ श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शृणोति । कथंभूतम् ?, इत्याह- स्पृश्यत इति स्पृष्टस्तं स्पृष्टं तनौ रेणुवदालिङ्गितमात्रमेवेत्यर्थः । इदमुक्तं भवति- स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते, यतो घ्राणेन्द्रियविषयभूतद्रव्येभ्यस्तानि मूक्ष्माणि, बहूनि, भावुकानि च, पटुतरं च श्रोत्रेन्द्रियं विषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति । श्रोत्रेन्द्रियस्य चेह कर्तृत्वं शब्दश्रवणान्यथानुपपत्तेर्लभ्यते । एवं घ्राणेन्द्रियादिष्वपि वाच्यम् । तानि पुनः कथं गन्धादिकं गृह्णन्ति ?, इत्याह- गन्ध्यत इति गन्धस्तमुपलभते घ्राणेन्द्रियम् , रस्यत इति रसस्तं च गृह्णाति रसनेन्द्रियम् , स्पृश्यत इति स्पर्शस्तं च जानाति स्पर्शनेन्द्रियम् । कथम्भूतं गन्धादिकम् ?, इत्याह-बद्धस्पृष्टम् । तत्र स्पृष्टमिति पूर्ववदेव, बद्धं तु गाढतरमाश्लिष्टमात्मप्रदेशस्तोयवदात्मीकृतमित्यर्थः । ततश्च गन्धादिद्रव्यसमूह प्रथमं स्पृष्टमालिङ्गितम् , ततश्च स्पर्शनानन्तरं बद्धमात्मपदेशैर्गाढतरमागृहीतमेवोपलभते घ्राणेन्द्रियादिकमिति । एवं व्यागृणीयात् प्ररूपयेत् प्रज्ञापकः, यतो घ्राणेन्द्रियादिविषयभूतानि गन्धादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि, बादराणि, अभावुकानि च, विषयपरिच्छेदे श्रोत्रापेक्षयाऽपनि च घ्राणादीनि अतो बद्धस्पृष्टमेव गन्धादिद्रव्यसमूहं गृह्णन्ति, न पुनः स्पृष्टमात्रमिति भावः । ननु यदि स्पर्शानन्तरं बद्धं गृह्णाति, तर्हि 'पुटबद्धं' इति पाठो युक्तः, इति चेत् । उच्यते- विचित्रत्वात् सूत्रगतेरित्थं निर्देशः, अर्थतस्तु यथा त्वयोक्तं तथैव द्रष्टव्यम् । अपरस्त्वाह- यद् बद्धं तत् सृष्टं भवत्येव, विशेषवन्धे सामान्यवन्धस्याऽन्तर्भावात् , ततः किं स्पृष्टग्रहणेन ? इति । तदयुक्तम् , सकलश्रोतसाधारणत्वाच्छास्त्रारम्भस्य, प्रपश्चितज्ञाऽनुग्रहार्थमर्थापत्तिगम्यार्थाभिधानेऽप्पदोषादिति ॥ चक्षुरिन्द्रियं त्वमाप्तमेव विषयं गृह्णाति, इत्याह- 'रूवं पुण पासई अपुढं विति' रूपं कर्मतापन्नं चक्षुरस्पृष्टमप्राप्तमेव पश्यति । पुनःशब्दस्य विशेषणार्थत्वादस्पृष्टमपि योग्यदेशस्थमेव पश्यति, नाऽयोग्यदेशस्थं सौधर्मादि, कट-कुट्यादिव्यवहितं वा घटादि । इति नियुक्तिगाथार्थः ।। ३३६ ॥ ॥१९९॥ १ स्पृष्ट भणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसं च सर्श च पदस्पृष्टं व्यागृणीयात् ॥ २३ ॥ Torks Jin a international For Personal and Private Use Only www.jaineitrary.org

Loading...

Page Navigation
1 ... 199 200 201 202