Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 200
________________ विशेषा ॥१९८॥ च प्रत्येकमन्तर्मुहूतं भवत इति द्रष्टव्यम् । क्वचित् 'मुहुत्तमद्धं तु' इति पाठः, तत्रापि मुहूर्तार्धशब्देनाऽन्तर्मुहूर्तमेव मन्तव्यम् । तुशब्दोऽपि तथैव । कलनं कालः, न विद्यते संख्या पक्ष-मास-ऋतु-अयन-संवत्सरादिका यस्याऽसावसंख्यः पल्योपमादिलक्षणस्तं कालमसंख्यम् , तथा संख्यायत इति संख्यः- पक्ष-मास-ऋतु-अयनादिप्रमित इत्यर्थः, तं संख्यम् , चशब्दादन्तर्मुहूर्त च धारणा प्रागभिहितस्वरूपा भवति ज्ञातव्या । इदमुक्तं भवति- अविच्युति-स्मृति-वासनाभेदाद् धारणा त्रिविधा । तत्राऽविच्युतिरूपा, स्मृतिरूपा च प्रत्येकमन्तर्मुहूर्तं भवति । या तु तदर्थज्ञानावरणक्षयोपशमरूपा स्मृतिबीजरूपा वासनाख्या धारणा, सा संख्येयवर्षायुषां सत्चानां संख्येयं कालम्, असंख्येयवर्षायुषां तु पल्योपमादिजीविनामसंख्येयं कालं भवति ॥ इति नियुक्तिगाथार्थः ॥ ३३३ ।। अथैनां भाष्यकारो व्याख्यानयति अत्थोग्गहो जहन्नो समयं सेसोग्गहादओ वीसुं । अंतोमुहुत्तमेगं तु वासनाधारणं मोत्तुं ॥ ३३४ ॥ ___ अवग्रह इत्यस्य व्याख्यानमर्थावग्रह इति, अयमपि निश्चय-व्यवहारभेदतो द्विधा, ततो व्यवहारार्थावग्रहव्यवच्छेदार्थमाह'जहन्न इति' अतिस्तोककालत्वेन जघन्यो नैश्चयिकोर्थावग्रहो नेतर इत्यर्थः, अयमेकसमयं भवति । शेषास्त्वेकां वासनारूपां धारणां मुक्त्वा येऽवग्रहादयो व्यञ्जनावग्रह-व्यावहारिकार्थावग्रहे-हा-ऽपाया-ऽविच्युति-स्मृतिरूपा मतिभेदास्ते सर्वेऽपि विष्वक् पृथगेकमेवाऽन्तमुहूर्त भवन्ति । वासनाधारणायास्तु नियुक्तिगाथोक्तमेव कालमानमवगन्तव्यम् , इत्यभिप्रायः ॥ इति गाथार्थः ।। ३३४ ॥ अथ 'पुहं सुणेइ सई' इत्यादिनियुक्तिगाथाया भाष्यकारः संबन्धमुपदर्शयन् परां गाथामाह "सोत्ताईणं पत्ताइविसयया पुवमत्थओ भणिया । इह कंठा सट्ठाणे भण्णइ, विसयप्पमाणं च ॥३३५॥ श्रोत्रादीनां प्राप्ता-आप्तविषयता पूर्वमर्थतोऽर्थव्याख्यानद्वारेणाऽऽयाता मया विस्तरेणाऽभिहिता । इह तु स्वस्थाने स्वस्थानत्वाद् नियुक्तिकारेण कण्ठाद् गाथासूत्रेण स्वयमेवासौ भण्यते । एतदुक्तं भवति- 'उग्गहो ईह अवाओ य' इत्यादिनियुक्तिगाथाया व्याख्यान कुर्वता मया नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा' इत्यादिना भाष्येण व्यञ्जनावग्रहव्याख्याप्रस्तावे श्रोत्रादीनां प्राप्ता-प्राप्तविषयता मोक्ता । इह तु कण्ठाद् नियुक्तिगाथायाः खस्थानत्वाद् नियुक्तिकारस्तां वक्ति । नन्वत्र कथं तस्याः स्वस्थानत्वम् , १ घ. ज. 'स्मृतेवी । २ प. ज. 'जभूता वा'। ३ अर्थावग्रहो जघन्यः समय शेषाऽवमहादयो विष्वक् । अन्तर्मुहूर्तमेकं तु वासनाधारणां मुक्त्वा ॥३३॥ ४ गाथा ३३६ । ५ श्रोत्रादीनां प्राप्तादिविषयता पूर्वमर्थतो भणिता । इह कण्ठात् स्वस्थाने भण्यते, विषयप्रमाणं च ॥३३५॥ ६ गाथा १७८ । ७ गाथा २०४ । ॥१९८॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 198 199 200 201 202