Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥१९१॥
प्राप्यते, स्थाणुत्वस्याऽनुगतत्वेन सत्वात् , पुरुषत्वस्य त्वभावरूपतयाऽसद्भावात् । अथवा, स्थाणुत्वं स्थाणोः पर्यायः, पुरुषत्वं तु पुरुषस्येति । यश्च स्थाणी 'पुरुष एवाऽयम्' इति विपर्यासः प्रादुरस्ति, तत्रापि पुरुषत्वं व्यावृत्तिरूपतया स्थाणोरपि पर्यायः, अनुगतत्वेन तु पुरुषस्येति; अनध्यवसायप्रतिभासि तु सामान्यमविवादेन स्थाण्वादिवस्तुपर्याय एव । तदेवं संशयादिभिर्वस्तुपर्यायाणां ज्ञायमानत्वात् , सम्यग्दृष्टिसंबन्धिनां च तेषामिहाऽधिकृतत्वेन मिथ्यादृष्टिसंबन्धित्वस्याऽभावात् , लोकरूढस्य च संशयादित्वस्याऽज्ञाननिवन्धनत्वेनेहाऽनधिकृतत्वाज्ज्ञानमेव ते सम्यग्दृष्टिसंबन्धिनः संशयादयः ॥ इति गाथार्थः ।। ३२१ ॥
नन्वनन्तपर्यायं सर्वमपि वस्तु, इति भवद्भिरुक्तम् । तस्य च घटादिवस्तुन एकस्मिन् काल एकमेव कश्चिद् घटत्वादिपर्यायं सम्यग्दृष्टिरपि गृह्णाति । अतोऽनन्तपर्यायमपि वस्त्वेकपर्यायतया गृह्णतस्तस्यापि कथं ज्ञानं स्यात्, अन्यथास्थितस्याऽन्यथा ग्रहणात् ?, इत्याशङ्कयाह
पंजायमासयंतो एक पि तओ पओयणवसाओ । तत्तियपज्जायं चिय तं गिण्हइ भावओ वत्थु ॥३२२ ॥
'तउत्ति तकोऽसौ सम्यग्दृष्टिरेकमपि घटादिवस्तुनो घटत्वादिपर्यायं प्रयोजनवशादाश्रयन् गृह्णस्तावन्तः प्रागुक्तप्रकारेणाऽनन्ताः पर्याया यस्य तत् तावत्पर्यायमेव भावतः परमार्थतो वस्तु घटादिकं गृह्णाति । एतदुक्तं भवति-भावत आगमप्रामाण्याभ्युपगमाभिप्रायतः सम्यग्दृष्टिना यथाऽवस्थितमनन्तपर्यायं वस्तु सदैव गृहीतमेवाऽऽस्ते, केवलं प्रयोजनवशादेकं पर्यायमाश्रयति, तथाहि-सौवर्णे घटे दृष्टे यस्य घटमात्रेण प्रयोजनं भवति स 'घटोऽयम्' इति घटत्वमध्यवस्यति । यस्य तु सुवर्णेन, स 'सुवर्णमिदम्' इति सुवर्णत्वं व्यवस्यति । यस्य तु जलक्षेपादिना, स 'जलादिभाजनमिदम्' इति जलादिभाजनत्वमध्यवस्यति । उपलक्षणं च प्रयोजनम् , अन्येऽप्यभ्यासपाटव-प्रत्यासत्त्यादयो गृह्यन्ते; तथाहि- ब्राह्मणे द्वारि दृष्टे कोऽप्यभ्यासवशाद् 'भिक्षुकोऽयम्' इत्याचष्टे, अन्यस्तु पाटववशाद् 'ब्राह्मणोऽयम्' इति, अपरस्तु यस्तत्समीपेऽधीते स प्रत्यासत्तिवशाद् 'मदीयोपाध्यायोऽसौ' इत्याद्यनया दिशा भावनीयम् । ततश्च प्रयोजनादिवशादेकपर्यायतया वस्तु गृह्णानोऽप्यसौ भावतः परिपूर्णाऽनन्तपर्यायमेव गृह्णाति । अतः सर्वदैव भावतः प्रतिपन्नयथावस्थितवस्तुखरूपस्य संशयादिकालेऽपि सम्यग्दृष्टानमेव ।। इति गाथार्थः ॥ ३२२ ॥
१ क-ग- 'घटादित्वप'। २ पर्यायमाश्रयन्नेकमपि सकः प्रयोजनवशात् । तावत्पर्यायमेव तद् गृहाति भावतो वस्तु ॥ ३२२ ।।
Jan Education inte
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202