Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१९॥
तु सर्वमययत्वात् । सत्यमधिपरिज्ञानं तर्हि ।
तदपरिज्ञाने तयावृत्तत्वमेव बोद्धं शक्यत इति । नन्वेवंविधपरिज्ञानं तर्हि केवलिन एव भवति, नाऽन्यस्य, तस्य मूक्ष्माऽतीत-व्यवहिता-ऽमृर्तादिसमस्तवस्तुग्रहणासमर्थत्वात् । सत्यम् , साक्षादित्यं केवल्येव जानाति, तद्वचनश्रद्धानद्वारेण पुनर्भावतोऽन्योऽपि सम्यग्दृष्टिः सर्व एकैकं वस्तु सर्वमयं जानाति । आगमे हि केवलिनैतत् प्रणीतम् , तद्यथा- “जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ति"। सम्यग्दृष्टेंश्च सर्वस्याऽप्ययमागमः प्रमाणमेव, अन्यथा सम्यग्दृष्टित्वायोगात् । ततश्च यद्यपि सर्वः सम्यग्दृष्टिरित्यं सर्वं सर्वमयं वस्तु न जानाति, तथापि यथोक्तागमश्रद्धानद्वारेण भावतो जानात्येवेति । अतः सर्वदैवाऽयं ज्ञानी भण्यते, केवलिदृष्टयथावस्थितवस्तुस्वरूपस्य प्रमाणताभ्युपगमद्वारेण सर्वदैव तेन ज्ञायमानत्वात् ॥ इति गाथाभावार्थः ।। ___अक्षरार्थस्तूच्यते- एक वस्तु जानन् सर्व वस्तु जानाति, सर्वच वस्तु जानने जानातीति एवंभूतमागमं सम्यग्दृष्टिस्तावत् सर्वदैव प्रमाणतयाऽभ्युपगच्छति' इति शेषः । इत्यतः परमाण्वादिकं यत् किमपि वस्त्वस्ति, तत्सर्वमप्युक्तन्यायेन ख-परपर्यायैः सर्वमयं सम्यग्दृष्टिज्ञानगोचरः। अतः सर्वदेवाऽयं ज्ञानी भण्यते, जाग्रतः, स्वपतः, तिष्ठतः, चलतश्चाऽस्य परमगुरुप्रणीतयथोक्तवस्तुस्वरूपाभ्युपगमस्य चेतसि सर्वदैवाऽविचलनात् ।। इति गाथार्थः ॥ ३२० ॥
ननु यद्येवं, तर्हि निश्चयरूपं सम्यग्दृष्टानमस्तु, संशयांदयस्तु बालानामप्यज्ञानत्वेन लोके रूढाः, तस्याऽपि कथमिव ज्ञानं स्युः १, इत्याह
जे संसयादिगम्मा धम्मा वत्थुस्स ते वि पज्जाया । तदहिगमत्तणओ ते नाणं चिय संसयाईया ॥ ३२१ ॥
इह ये संशयादिगम्या धर्मास्तेऽपि वस्तुनस्तावत् पर्याया एव । ततस्तदधिगमहेतुत्वात् ते सम्यग्दृष्टिसंबन्धिनः संशयादयो ज्ञानमेव । एतदुक्तं भवति- इह लोकव्यवहाररूढं संशयादित्वमज्ञानभावस्य निबन्धनत्वेन तावन्नाधिकृतमेव, किन्तु मिथ्यादृष्टिसंबन्धि त्वमित्युक्तमेव, तच्च सम्यग्दृष्टिसंबन्धिनां संशयादीनां नास्ति, तत्कथं न ते ज्ञानं भवेयुः । ज्ञायते येन किश्चित् तज्ज्ञानं भवति, न च संशयादिभिः किमपि ज्ञायते, इति चेत् । नैवम्, तेषामपि वस्तुपर्यायगमकत्वात् , तथाहि- पुरतः स्थाणी व्यवस्थिते योऽसौ 'किमयं स्थाणुः, पुरुषो वा ?' इति संशय उदेति, तत्र यत् स्थाणुत्वं, पुरुषत्वं च प्रतिभाति, तदुभयमपि स्थाणी पर्यायरूपतया
। य एक जानाति स सर्व जानाति, यः सबै जानाति स एकं जानातीति । २ ये संशयादिगम्या धर्मा वस्तुनस्तेऽपि पर्यायाः । तदधिगमत्वतस्ते ज्ञानमेव संशपादयः ॥ ३२१ ॥
मावस्या
॥१९॥
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.ary
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202