Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
Poo
नैश्चयिकः । आगमे च संशयादिरूपं, निश्चयरूपं वा मिथ्यादृष्टः सर्वमप्यज्ञानम् : सम्यग्दृष्टस्तु तदेव सर्व ज्ञानम् । इत्येवं ज्ञाना-ज्ञानविशेषा व्यवहारो रूढः । ततश्च यदादौ संशयादित्वेनाऽवग्रहादीनामज्ञानत्वं प्रेरितम् , तदयुक्तम् न हि संशयादित्वमज्ञानभावस्य निमित्तमागम
विचारे, किन्तु मिथ्यादृष्टिसंबन्धित्वम् , तच्चेह नास्ति, सम्यग्दृष्टिसंबन्धिनामेवाऽवग्रहादीनामिह विचारयितुमुपक्रान्तत्वात् , इति भावः ।। ॥१८९॥
इति गाथार्थः ॥ ३१८॥ का पुनर्मिथ्यादृष्टिनाऽपराधः कृतः, येन तत्संबन्धि सर्वमप्यज्ञानम् ?, इत्याह
सदसदविसेसणाओ भवहेउजाहच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ ३१९ ॥ एषा पूर्वमिहाऽपि व्याख्यातैवेति ॥ ३१९ ॥ सम्यग्दृष्टस्तर्हि को विशेषः, येन तस्य सर्वमपि ज्ञानम् ?, इत्याह
ऐगं जाणं सव्वं जाणइ सव्वं च जाणमेगं ति । इय सव्वमयं सव्वं सम्मदिहिस्स जं वत्थु ॥ ३२० ॥
इह परमाण्वादिकमेकैकं वस्तु स्व-परपर्यायैः समस्तत्रिभुवनगतवस्तुमयम् , तथाहि- परमाणौ तावदेकगुणकालत्वादयोऽनन्ता वर्ण-गन्ध रसादिकाः स्वपर्याया भवन्ति । अपरं च, असौ विवक्षितः परमाणुरन्येभ्यः परमाणु-द्यणुक-त्र्यणुकादिसमस्तवस्तुभ्यः क्षेत्रFol कालादिभिावृत्तः, इत्यतस्तद्वयावृत्तिलक्षणा अनन्ताः परपर्याया भवन्ति । एवं च सति येभ्योऽन्यवस्तुभ्योऽसौ परमाणुावृत्तः, तेषां
सर्वेषामपि तत्र परमाणौ प्रत्येकमभावो वर्तते, इति सामर्थ्यात् सिद्धम् ; अन्यथा तस्य तेभ्यो व्यावृत्त्यसिद्धः, अभावश्चाऽभाव वतो धर्मः, यत्र धर्मः, तत्र धर्मिणा कथञ्चिद् भवितव्यमेव, अन्यथा तस्य तद्धर्मत्वायोगातः ततश्च सर्वाण्यप्यन्यवस्तूनि तत्र परमाणौ स्वा| भाववृत्तिद्वारेण वर्तन्त इति पर्यवसितम् । ततश्च परमाणुः सर्ववस्तुमयः सिद्धः । एवं व्यणुकादिष्वपि भावनीयम् , तेषामपि प्रत्येक परेभ्यो व्यावृत्तत्वात् । ततश्च सर्वमपि वस्तु सर्वमयमिति स्थितम् । इह च य एकं विवक्षितं वस्तु जानाति, स शेषाण्यपि सर्ववस्तूनि जानाति, समस्तवस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तुपरिज्ञानस्य । येभ्योऽपि हि शेषवस्तुभ्यो व्यावृत्तं तद् विवक्षितं वस्तु, तानि सर्वाण्यपि ज्ञातव्यानि, तत्परिज्ञानाभावे तेभ्यो व्यावृत्तत्वस्याऽवगन्तुमशक्यत्वादिति । यश्च सर्ववस्तूनि जानाति स विवक्षितमप्येकं किमपि वस्तु जानाति, तत्परिज्ञानाविनाभावात समस्तवस्तुज्ञानस्य । तानि हि सर्ववस्तूनि विवक्षितैकवस्तुनो व्यावृत्तान्यवबोद्धव्यानि । न च
१ गाथा ११५ । २ एकं जानन् सर्व जानाति सर्व च जाननेकमिति । इति सर्वमयं सर्व सम्यग्दृष्टैर्यद् वस्तु ॥ ३२० ॥ ३ क.स.ग. 'लकत्वा' ।
॥१८९॥
in Education
For Personal and
Use Only
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202