Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥१९२॥
मिथ्याप्टेरप्येवं भविष्यति, इति चेत् । न, इत्याह
'निण्णयकाले विजओ न तहारूवं विदंति ते वत्थु । मिच्छट्टिी, तम्हा सव्वं चिय तेसिमण्णाणं ॥ ३२३ ॥ बृहद्वत्तिः। ___ आस्तां संशयादिकाले, निर्णयो निश्चयस्तत्कालेऽपि यतस्ते मिथ्यादृष्टयो न यथा परमगुरुभिदृष्टं तथारूपमनन्तपर्याय वस्तु विदन्ति, केवलिदृष्टयथावस्थितवस्त्वभ्युपगमस्य तेषां कदाचिदप्यभावात् । अन्यथा मिथ्यादृष्टित्वायांगात् । अतस्तेषां निश्चयरूपं, संशयादिरूपं च सर्वमज्ञानमेव, ज्ञाननिवन्धनस्य भुवनगुरुनिर्णीतयथावस्थितवस्त्वभ्युपगमस्य कदाचिदप्यसत्त्वात् ।। इति गाथार्थः ॥३२३॥
अथवा नाज्ञानमात्रमेव तेषाम् , किन्त्वद्याप्याधिक्यं किश्चित् , इति दर्शयत्राहकेद्रयरं वन्नाणं विवज्जओ चेव मिच्छदिट्ठीणं । मिच्छाभिणिवेसाओ सव्वत्थ घडे व्व पडबुद्धी ॥ ३२४ ॥
संशया-ऽनध्यवसाय-विपर्ययान् किलाऽज्ञानत्वेन सामान्यतो वदति भवान् , मिथ्यादृष्टंस्त्वातदुःसहमहादुःखहेतुत्वात् कष्टतरं विशेषिततरमज्ञानम् । कुतः, इत्याह- यस्माद् विपर्ययो विपर्यास एव तस्य सर्वज्ञाक्ते यथावस्थिते वस्तुनि, न तु संशया-ऽनध्यवसायाविति भावः । अतः संशया-ऽनध्यवसायवद्भयो विशेषिततरमस्याऽज्ञानम् । कुतः पुनरस्य विपर्यय एव, इत्याह-मिथ्याभिनिवेशात् , सर्वत्रेति- सर्वत्र मोक्षे, तत्साधने संसार, तत्साधने च नारकादिवस्तुनि वा, तस्य मिथ्याभिनिवेशात् सर्वज्ञोक्तविपरीताध्यवसायात् , घटे पटबुद्धिवत् ।। इति गाथार्थः ॥ ३२४ ॥ ___ तदेवं सर्वज्ञोक्तयथावस्थितानन्तपर्यायवस्त्वभ्युपगमस्य सर्वदेव भावात् सम्यग्दृष्टानं समर्थितम् । अथ प्रकारान्तरेणापि तत् ।। तस्य समर्थयबाह
अहवा जहिंदनाणोवओगओ तम्मयत्तणं होइ। तह संसयाइभावे नाणं नाणोवओगाओ ॥ ३२५ ॥
अथवा यथेन्द्रज्ञानोपयोगात् तदुपयोगवतो ज्ञातुर्देवदत्तादेः परमैश्वर्याद्यभावेऽपि तन्मयत्वमिन्द्रमयत्वं भवति, भावेन्द्र एवाऽयं व्यपदिश्यत इत्यर्थः तथा सम्यग्दृष्टेरपि सम्यग्दर्शनलाभकाल एव मत्यादिज्ञानलाभाज्ज्ञानपरिणामरूपस्य ज्ञानोपयोगमात्रस्य सर्वदैव भावात् , अन्यथा मिथ्यादृष्टित्वप्रसङ्गात् , सदैव ज्ञानमभ्युगन्तव्यम् , तदुपयुक्तस्य तन्मयत्वात् , इन्द्रोपयुक्तदेवदत्तेन्द्रवदिति । इदमुक्तं
निर्णयकालेऽपि यतो न तथारूपं विदन्ति ते वस्तु । मिथ्यारष्टयः, तस्मात् सर्वमेव तेषामज्ञानम् ॥ ३२३ ॥ २ कष्टतरं वाऽज्ञानं विपर्यय एवं मिथ्यादृष्टीनाम् । मिथ्याभिनिवेशात् सर्वत्र घट इव पटवुद्धिः ॥ ३२४॥ ३ अथवा यथेन्द्रज्ञानोपयोगतस्तन्मयत्वं भवति । तथा संशयादिभावे ज्ञानं ज्ञानोपयोगात् ॥ ३२५ ॥ ४ ज. 'सर्वदै ।
PRADOORSHeidio
VI|१९२॥
Jan Education Internat
For Personal and Private Use Only
www.janelibrary.org
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202