Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
FO
विशेषा०
वृहद्रातः।
॥१७९॥
वग्गहादओ' इत्यादिना प्रतिपादितैरवग्रहादिसंबन्धिभिरष्टाविंशतिभेदैः किलासंगृहीतत्वाद् व्यञ्जनावग्रहचतुष्टयापगमं कृत्वाऽश्रुतनिश्रितं बुद्धिचतुष्टयं मतान्तरवादिभिः प्रक्षिप्यते; एतच्चायुक्तम् , यतः 'सोइंदियाइभेएण' इत्यादिनाऽवग्रहादीनामेवाऽष्टाविंशतिभेदाः प्रोक्ताः, अवग्रहादयश्च बुद्धिचतुष्टयेऽपि सन्ति, अतोऽवग्रहादिभणनद्वारेण तदप्यश्रुतनिश्रितं बुद्धिचतुष्टयमेतेष्वष्टाविंशतिभेदेषु संगृहीतमेव, इति किमिति तैः पुनरपि प्रक्षिप्यते ? ॥ इति गाथार्थः ।। ३०३ ॥
तत्रैतत् स्यात् प्रष्टव्यं परस्य- 'कथमौत्पत्तिक्यादिबुद्धिचतुष्टयेऽवग्रहादयः संभवन्ति ? । तदत्र यथा ते भवन्ति, तथा दर्शयन्नाह
किह पडिकुक्कुडहीणो जुझे बिंबेण वग्गहो, ईहा । किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंब ति ॥ ३०४॥ इह किलोऽऽगमे___“भैरह-सिल-मिंद-कुक्कुड-तिल-बालुय-हत्थि-अगड-वणसंडे । पायस अइआ-पत्ते खाडहिला पञ्च पियरो य" ॥१॥ इत्यादिनौत्पत्तिक्यादिबुद्धीनां बहून्युदाहरणान्युक्तानि, तन्मध्याच्छेपोपलक्षणार्थ कुर्कुटोदाहरणमाश्रित्यौत्पत्तिक्यां बुद्धाववग्रहादयो भाव्यन्ते- राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टं यदुत- अयं मदीयकुर्कुटो द्वितीयकुर्कुटमन्तरेणैकैक एव योधनीयः। ततस्तेन जिज्ञासितं मनसि 'कथमयं प्रतिकुर्कुटहीनः प्रतिपक्षभूतद्वितीयकुर्कुटवर्जितो युध्येत । एतच्च जिज्ञासमानस्य तस्य झगित्येव स्फुरितं चेतसि । किम् ?, इत्याह-बिम्बेनेति आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दध्मिातत्वादयं युध्यत इत्यवगृहीतमित्यर्थः । एतच्च किम्?, इत्याह- अवग्रहसामान्य नव बिम्बमात्रावग्रहणादवग्रहो मतिप्रथमभेद इत्यर्थः । ईहा तर्हि का?, इत्याह- 'ईहा कि सुसि लिहमिति' किं पुनस्तत प्रतिबिम्बमस्य योधनाय सुश्लिष्टं सुष्टु युज्यमानकं भवेत्- किं तडागपयःपूरादिगतम्, आहोखिद् दर्पणगतम् ?, इत्यादिविम्बविशेषान्वेषणमीहेत्यर्थः । अपायमुपदर्शयति- 'अवाओ दप्पणसंकंतबिंब ति' कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वात्, अस्पष्टत्वाच जलादिगतविम्बमिह न युक्तम् । ततः स्थिरत्वेन, स्पष्टादित्वेन च चरणाऽऽघातादिविषयत्वाद् दर्पणसंक्रान्तमेव तदत्र युज्यते, इत्येवं विम्बविशेषनिश्चयोऽपाय इत्यर्थः । एवमन्येष्वपि बुद्ध्युदाहरणेष्ववग्रहादयो भावनीयाः। तस्माद् बुद्धिचतुष्टयेऽप्येषां सद्भावाच्छूत
१ गाथा ३०० । २ कथं प्रतिकुकूटहीनो युध्येत बिम्बेनाऽवग्रहः, ईहा । किं सुश्लिष्टमपायो दर्पणसंक्रान्तविम्वमिति ॥ ३० ॥ ३ घ. 'कह' । ४ श्रीनन्दीसने । ५ भरत-शिला मेड़-कुर्कुट-तिल-बालुका-हस्ति-अवट-वनखण्डानि । पायसा-गमन-पत्राणि तरुमर्कटिका ('खीसकोली इति भाषायाम्) पञ्च पितरश्च ॥१॥ ६घ. 'ढि' ।
॥१७९॥
Jan Education Internat
For Personal and Private Use Only
Loading... Page Navigation 1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202