Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 183
________________ विशेषा. ॥१८॥ तस्मादवग्रहादिसाम्यादश्रुतनिश्रितस्य श्रुतनिश्रितेऽन्तर्भावं कृत्वा केवलं श्रुतनिश्रितमेव मतिज्ञानमष्टाविंशतिभेदं व्याख्यातुमुचितम् , न तु परोक्तनीत्या व्यञ्जनावग्रहापगमेन श्रुता ऽश्रुतनिश्रितमिति । कुतः, इत्याह- 'जम्हा इत्यादि ' यतः "से किं तं बृहद्वत्तिः । सुयनिस्सियं?" इत्येवमांगमे तस्मिन् श्रुतनिश्रिते समाप्ते निष्ठां नीते सति पुनः पश्चात् “से किं तं अस्सुयनिस्सियं ?" इत्यादिना ग्रन्थे - A नाऽश्रुतनिश्रितं भणितम् । अयमभिप्रायः- श्रुतनिश्रितं सभेदमप्यभिधाय पश्चादेवाऽश्रुतनिश्रितमुक्तम् । अतः कथं तत्तत्र प्रक्षिप्यते । तस्मात् समयाभिप्रायेण श्रुतनिश्रितस्यैवाऽष्टाविंशतिभेदा इति । अतो न भवयाख्यानं श्रेय इति । तदेवं 'चंउवइरित्ताभावा' इत्यादिगाथा मूलटीकाभिप्रायेण व्याख्याताः। अन्ये त्वन्यथाऽपि व्याख्यानयन्ति, तदभिप्रायं त्वतिगम्भीरत्वाद् न विद्मः ॥ इति गाथार्थः ॥ ३०६॥ तदेवमष्टाविंशतिविधत्वं मतिज्ञानस्योपदय विवक्षान्तरेण बहुतरभेदमप्येतद् भवतीति दर्शयन्नाह जं बहु-बहुविह-खिप्पा-ऽनिस्सिय-निच्छिय-धुवे-यरविभिन्ना । पुणरुग्गहादओ तो तं छत्तीसत्तिसयभेयं ॥३०७॥ यद् यस्माद् बहु-बहुविध-क्षिपा-ऽनिश्रित निश्चित-ध्रुवैः सेतरैः सप्रतिपक्षरेकैकशो विभिन्ना भेदभाजः पुनरप्यवग्रहादय इष्यन्ते । ततस्तदेवाऽष्टाविंशतिविधमाभिनिबोधिकज्ञानमेतैादशाभिर्भेदैः प्रत्येकं भिद्यमानत्वात् पत्रिंशदधिकत्रिशतभेदं भवति । इदमुक्तं भवतिअनन्तरवक्ष्यमाणन्यायेन, संक्षेपतः प्रागभिहितयुक्त्या च श्रोत्रादिभिः कश्चिद् बढवगृह्णाति, कश्चित्चबहु, अपरस्तु बहुविधम् , अन्यस्त्वबहुविधम् । एवं यावदन्यो ध्रुवम् , अपरस्त्वध्रुवमवगृह्णातीति । एवमीहा-ऽपाय-धारणास्वपि समभेदासु प्रत्येकममी द्वादश भेदा योजनीयाः । नवरमीहते, निश्चिनोति, धारयति, इत्याद्यभिलापः कार्यः। ततश्चाऽष्टाविंशतौ द्वादशभिगुणितायां षट्त्रिंशदधिकानि त्रीणि शतानि भेदानां भवन्ति ।। इति गाथार्थः ।। ३०७ ॥ अथ शब्दलक्षणं विषयमाश्रित्य तावद् बहादीनामर्थ व्याख्यातुमाहनाणासहसमूहं बहु पिहं मुणइ भिन्नजाईयम् । बहुविहमणेगभेयं एककं निद-महुराई ॥ ३०८ ॥ १ अथ किं तत् श्रुतनिश्चितम् ।। २ श्रीनन्दीसूत्ररूपे। ३ अथ किं तदधुतनिश्रितम् ।। ४ गाथा ३०३। ५ यत् पहु-बहुविध-क्षिप्रा-ऽनिश्चित-निश्चित-भुवे-तरविभिन्नाः । पुनरवग्रहादयस्ततस्तत् पदिशस्त्रिशतभेदम् ॥ ३०॥ ६ ज. 'के त्रि'। • नानाशब्दसमूह बहुं पृथग् जानाति भिन्न जातीयम् । बहुविधमनेकभेदमेकैकं स्निग्ध-मधुरादिम् ॥ ३०८ ॥ ८ क.ग. 'सुण'। ॥१८॥

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202