Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
एतस्मादेवोक्तस्वरूपाद् बबादिपदपदसमूहात् प्रतिपक्षमेतद्विपर्ययमबह-बहुविधा-Sक्षिप-निश्रिता-ऽनिश्चिता-ऽध्रुवपदपटलक्षणं विशेषा साधयेत् स्वयमेव ब्रूयाद् मेधावी । स च लाघवार्थ बहादिविचार एव साधितः । तदेवं व्याख्याता द्वादशापि बहादयो भेदाः ।
अथवा निश्रिते समतिपक्षेऽपि व्याख्यानान्तरलक्षणो विशेषो वक्तव्यः । कः ?, इत्याह- परधर्मेरश्चादिवस्तुधमैर्विमिश्रं युक्तं गवादिवस्तु ॥१८३॥
गृह्णानस्य निश्रितं भवति- गामश्वादिरूपेण गृह्णतो येयं विपर्ययोपलब्धिः, तनिश्रितमित्यर्थः । इतरत्तु यत्परधर्विमिदं वस्तु न गृह्णाति, किन्तु यथावस्थितमेव तत्सद्भूतोपलब्धिरूपमनिश्रितं गवादिकं वस्तु गवादिरूपेणैव गृह्णतो येयमविपर्ययोपलब्धिस्तदनिश्रितमित्यर्थः ।।
अत्राह- ननु बहु-बहुविधपरिज्ञानादीनि विशेषणानि स्पष्टार्थग्राहकेष्वपायादिषु भवन्तु, व्यञ्जनावग्रह-निश्चयार्थावग्रहयोस्तु कथं तत्संभवः, तथाहि- 'सामन्नमणिद्देसं सरूव-नामाइकप्पणारहियं इत्यादिवचनानिश्चयार्थावग्रह शब्दादिविशेषमात्रग्रहणमपि नास्ति, | कुतो यथोक्तबहादिपरिज्ञानसंभवः । अथ व्याख्यानाद् व्यवहारावग्रहोत्र गृह्यते, तस्मिंश्च विशेषग्राहित्वाद् बहुपरिज्ञानादिविशेष
णान्युपपद्यन्त एव । भवत्वेवम् , तथाऽप्यष्टाविंशतिभेदमध्यसंगृहीतस्य व्यञ्जनावग्रहस्य कथमेतद्विशेषणसंभवः । तत्र हि सामान्यार्थग्रहणमात्रमपाकृतम् , बदादिपरिज्ञानं तु दूरोत्सारितमेवेति ।।
सत्यमेतत् , किन्तु व्यञ्जनावग्रहादयः कारणमपायादीनाम् , तानन्तरेणाऽपायाद्यभावात् । ततश्चाऽपायादिगतं बबादिपरिज्ञानं तत्कारणभूतेषु व्यञ्जनावग्रहादिष्वपि योग्यतयाऽभ्युपगन्तव्यम् । न हि सर्वथा विशिष्टात् कारणाद् विशिष्ट कार्यमुत्पत्तुमर्हति, कोद्रFod वीजादेरपि शालिफलादिप्रसवप्रसङ्गात् , इति प्रागप्युक्तमायम् । इत्यलमतिचर्चितेन ।। इति गाथार्थः ॥ ३१० ॥
ननु कथमेकस्याऽपि मतिज्ञानस्यैतावन्तो भेदाः ?, इत्याशङ्कय निर्दिष्टभेदानां कारणम् , अन्येषामपि बहुतरभेदानां सहेतुकं ER संभवं चोपसंहारगर्भमाह
ऐवं बज्झ-झंतरनिमित्तवइचित्तओ मइबहुत्तं । किंचिम्मेत्तविसेसेण भिजमाणं पुणोऽणतं ॥ ३११॥
एवं तावद् बाह्या-ऽऽभ्यन्तरनिमित्तवैचित्र्याद् मातिबहुत्वमुक्तम् । तत्र बाह्यं निमित्तं मतिज्ञानस्य कारणमालोक-विषयादिकम् । तस्य च स्पष्टा-ऽव्यक्त-मध्यमा-ऽल्प-महत्त्व-संनिकर्ष-विप्रकर्षभेदाद् वैचित्र्यम् । आभ्यन्तरनिमित्तं पुनरावरणक्षयोपशमो-पयोगो-पकरणेन्द्रियाणि । अस्याऽपि वैचित्र्यं शुद्धा-ऽशुद्ध-मध्यमभेदात् । ततश्चैतस्माद् बाह्या-ऽऽभ्यन्तरनिमित्तचिच्याद् मतिज्ञानस्य यथोक्तभेदबहुत्वम
१ गाथा २५२ । २ एवं बाह्या-ऽऽभ्यन्तरनिमित्तवैचित्र्यतो मतिबहुत्वम् । किञ्चिन्मात्र विशेषेण भिद्यमानं पुनरनन्तम् ॥ ३ ॥
POOOOOONDHADIDIODARA
॥१८३||
Jan Educonsinema
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202