Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वृत्तिः ।
विशेषा ॥१८५॥
१. माह
860
तदेवं संशयादिरूपत्वाद् नाऽवग्रहादयो ज्ञानमिति । अतो न ते मतिज्ञानभेदाः । तद्भेदत्वे वा मतिज्ञानमपि न किञ्चित् , दोषशतजर्जरावग्रहाद्यात्मकत्वात् ॥ इति गाथार्थः ॥ ३१३ ।।
अत्राऽऽचार्यः प्राह
इह सज्झमोग्गहाईण संसयाइत्तणं तहवि नाम । अब्भुवगंतुं भण्णइ नाणं चिय संसयाईया ॥ ३१४ ॥
इह यदवग्रहादीनां संशयादित्वं त्वयोद्भावितं तदद्यापि साध्यं साधनीयं वर्तते, त्वदुक्तनियुक्तिकवाङ्मात्रेणैव मदुक्तहेतोरसिद्धवाभावादिति मन्तव्यम्, न पुनरेतावतैव जाता त्वत्समीहितसिद्धिः, इति प्रमुदितेन न भाव्यमिति भावः । तथाहि- यदुक्तम् 'संदिग्धे संशय-विपर्ययो' इति । तदयुक्तम्, अभिप्रायापरिज्ञानात्, न ह्यस्माभिस्तथाविधं वस्त्वप्रापकं संदिग्धत्वं विवक्षितम् , येन वस्त्वप्रापणात्, विपर्ययप्रापणाद् वा तत्र संशय-विपर्ययौ स्याताम् ; किन्तु कृतेऽपि वस्तुपापकेऽवितथे निश्चये यत्र तथाविधक्षयोपशमवैचिच्याद् मनसि किश्चिदल्पं शङ्कामात्रं न निवर्तते 'सम्यग् न जाने, तथैव स्यादन्यथा वा' इति, तच्चेह संदिग्धत्वं विवक्षितम् । न चैतावन्मात्रेणैवाऽज्ञानता युक्ता, व्यवहारोच्छेदप्रसङ्गात् । न खलु धूम-बलाकादेः सकाशात् सम्यग् दहन-जलादौ निश्चितेऽपि मुखेन तनिश्चयं ब्रुवतामपि सर्वेषां प्रमातृणां चेतसि शङ्कामात्रं विनिवर्तते । न च ते सर्वेऽपि निश्चितं वस्तु न प्राप्नुवन्ति । न च कापि संशय-विपर्ययत्वेनाऽज्ञानता तेषां दृष्टा । यदप्युच्यते- 'ईहाऽपि संशय एवं' । तदप्यसंगतम् , न हि 'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशय ईहाऽभ्युपगम्यते; किन्तु यदनन्तरमेव निश्चयोऽवश्यं भवति, स एवान्वयधर्मघटन-व्यतिरेकधर्मनिराकरणाभ्यां निश्चयाभिमुखो बोध ईहा, इत्यसकृदेव पूर्वमावेदितम् । न चायं संशयः, निश्चयाभिमुखत्वात् । नापि निश्चयः, तत्प्रत्यासत्तिमात्रप्राप्तत्वात् । न च वक्तव्यम्- निश्चयादन्यस्य सर्वस्य संशयत्वादज्ञानतैवेति: निश्चयोपादानक्षणस्याऽपि सर्वथाऽज्ञानत्वप्रसङ्गात् । तथा च सति निश्चयस्याऽप्यज्ञानताप्राप्तिः । “न ह्यविशिष्टात् कारणाद् विशिष्टकार्योत्पत्तिः" इत्युक्तत्वादिति । यदप्युक्तम्- 'निश्रितं विपर्यासः' इति । तदप्ययुक्तम् , 'लिङ्गाश्रितं निश्रितम्' इत्यस्मिन् व्याख्यानेऽस्य दोषस्य सर्वथैवाऽसंबध्यमानत्वात्, 'परधम्मेहि विमिस्सं निस्सियं' इत्यस्य च व्याख्यानान्तरमात्रत्वात् । भवतुं तदपि व्याख्यानम् , तथापि व्याख्यानात् परधर्मास्तस्मिन्नाशङ्किता एव द्रष्टव्याः, न तु निश्चिताः, यथा 'गौरवात्र, १च. छ. ज. 'न म' । २ इह साध्यमवग्रहादीनां संशयादित्वं तथापि नाम । अभ्युपगम्य भण्यते ज्ञानमेव संशयादयः ॥ ३१४ ॥ ३ क. ग. 'स्वादि'। ४ गाथा ३१० । ५५.छ.ज. 'तु चत'।
नाहा
॥१८५||
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202