Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥१८॥
क
PREPARATOREHEAPESCRIBE
भिहितमवगन्तव्यम् । एतदेव च मतिज्ञानं यथोक्तनिमित्तद्वयस्य किञ्चिन्मात्रभेदाद् भिद्यमानं पुनरनन्तमपि भवतीति प्रतिपत्तव्यम् , सामान्येन मतिज्ञानमात्रवतां जीवानामनन्तत्वात् , तेषां च क्षयोपशमादिभेदेन मतभिन्नत्वादिति भावः ।। इति गाथार्थः ।। ३११ ॥
अत्राह कश्चित्- नन्ववग्रहादयो ज्ञानमेव न भवन्ति, स्पष्टार्थनिर्भासाद्यभावात् , संशयादिवत् , इति कथममी मतिज्ञानभेदाः?, इत्याशङ्कचैतेषां ज्ञानत्वसाधनायाह
इह संसयादणंतभावाडे वग्गहादयो नाणं । अणुमाणमिवाह न संसयाइसब्भावउ तेसुं ॥ ३१२ ॥
अवग्रहादयो ज्ञानमिति प्रतिज्ञा, संशयादिवनन्तर्भावादिति हेतुः, आदिशब्दाद् विपर्यया-ऽनध्यवसायपरिग्रहः, अनुमानवदिति दृष्टान्तः । इह संशयाद्यनन्तर्भूतैर्वर्ण-गन्धादिभिः पुद्गलद्रव्यैर्व्यभिचारसंभवात् , सूत्रस्य च सूचकत्वात् 'आत्मधर्मत्वे सति संशयाद्यनन्तर्भावात्' इति सविशेषणो हेतुर्द्रष्टव्यः । अत्राह पर:- ननु सविशेषणे हेतावनैकान्तिकता मा भूत , असिद्धता त्वनिवार्यवेति । एतदेवाह- 'न संसयाईत्यादि' मूरे ! न तद् भवदीयं वचः। कुतः, इत्याह-संशयादिसद्भावतस्तेष्ववग्रहादिषु, तेषां संशयादिरूपत्वात् संशयाधनन्तर्भावात् , इत्यसिद्धो हेतुरिति भावः ॥ इति गाथार्थः ॥ ३१२ ॥ कथं पुनस्तेषु संशयादिसद्भावः ?, इत्याह
ननु संदिद्धे संसय-विवजया संसओ ह चेहा वि । वच्चासो वा निस्सियमवग्गहोऽणज्झवसियं तु ॥ ३१३ ॥
ननु 'र्खिप्पमचिरेण 'इत्यादिगाथायां तु यदुक्तम्- 'निच्छियमसंसयं जं ति' तत्पतिपक्षे यदुच्यते- 'कोऽपि संदिग्धं मुणति' इति, तत्र संदिग्धे ज्ञायमाने संशयस्तावद् व्यक्त एव , यत्र च संशयस्तत्र संदिहानस्य कदाचिद् विपर्ययोऽपि स्यात्ः इत्येवं संदिग्धे संशय-विपर्ययौ तावदनिवारितावेव । अथवा, किमननोत्तरभेदरूपे संदिग्धे दूषणप्रदानेन ?, हन्त ! येयं मूलभेदरूपेहा साऽपि संशय एव, निश्चयत्वे तस्या अपायत्वप्रसङ्गादिति । अथवा 'परधम्मेहि विमिस्सं निस्सियं' इत्यत्र यद् निश्रितमुक्तं, तदपि गवादिकमश्वादिरूपेण गृहद् विपर्यास एव । न हि नृत्यन् विपर्यासो भवति, किन्त्वन्यस्यान्यरूपेण ग्रहणमेवेति भावः । नैश्चयिकार्थावग्रहरूपोऽवग्रहः पुनरनध्यवसितमनध्यवसाय एव, अनिर्देश्यसामान्यमात्रग्राहित्वात् , न ह्यत्र कस्याऽप्यर्थस्य संबन्ध्यध्यवसायोऽस्तीति कृत्वा ।
१ इह संशयाद्यनन्तर्भावादवग्रहादयो ज्ञानम् । अनुमानमिवाऽऽह-न, संशयादिसद्भावतस्तेषु ॥ ३१२ ॥ २ क. ग, घ, छ, 'लधर्मेळ' । ३ ननु संदिग्धे संशय विपर्ययौ संशय इह नेहाऽपि । व्यत्यासो वा निश्रितमवग्रहोऽनध्यवसित तु ॥ ३१३॥ ४ गाथा ३०९। ५ घ. ज. 'कस्यचि' । ६ गाथा ३१० ।
॥१८४॥
Jan Education Internat
For Personal and Private Use Only
www.jaineitrary.ary
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202