Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 188
________________ विशेषा० ॥१८६॥ केवलमश्व इव प्रतिभाति' इति । एतावन्मात्रेणैव चेयं विपर्ययोपलब्धिरवगन्तव्या; न तु सर्वथा विपर्ययधर्मनिश्चयात् , सर्वथा विपर्यये तत्राऽश्वादिसत्त्वप्रसङ्गात् । न च वक्तव्यम्- एवं सतीदमनिश्चिताद् न भिद्येतः तत्र परधर्मनिश्रितत्वाभावात् , विवक्षितवस्त्वभावशङ्कामात्रस्यैव सद्भावादिति । न च विपर्ययधर्मशङ्कामात्रेणाऽप्यज्ञानता, वस्तुप्राप्तिविघाताभावादिति । यदप्युक्तम्- 'अवग्रहोऽनध्यवसायः' इति । तदप्ययुक्तम् , तत्र ह्यध्यवसायः साक्षादेव नास्ति, योग्यतया पुनरस्त्येव, अन्यथा तत्कार्येष्वपायादिष्वपि तदभावप्रसङ्गात्, इत्युक्तमेव । अतिमत्त-मूर्छितानामेव हि ज्ञानमनध्यवसाय उच्यते, तत्र योग्यतयाऽप्यध्यवसायस्य वक्तुमशक्यत्वात् , तत्कार्यभूतस्याऽपायाद्यध्यवसायस्याऽप्यलक्षणत्वात् । तदेवमवग्रहादीनामसिद्ध संशयादित्वम् । तथापि 'अभ्युपगन्तुं'अङ्गीकृत्यापि तेषां संशयादिरूपता ब्रूमः- ज्ञानमेव संशयादयः संशय-विपर्यया-ऽनध्यवसायाः। ततश्च संशयादिरूपत्वेऽपि नावग्रहादीनां मतिज्ञानभेदत्वं विरुध्यत इति भावः । इदमुक्तं भवति-नास्माभिः 'समीहितवस्तुपापकं ज्ञानम् , इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रमाणा-ऽप्रमाणभूते ज्ञाना-ज्ञाने विचारयितुमुपक्रान्ते, किन्तु 'ज्ञायते येन किमपि, तत् सम्यग्दृष्टिसंबन्धि ज्ञानम्' इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेतम् । वस्तुपरिज्ञानमात्रं तु संशयादिष्वपि विद्यते, इति न तेषामपि सम्यग्दृष्टिसंवन्धिनां ज्ञानत्वहानिः ॥ इति गाथार्थः ॥ ३१४ ॥ कथं पुनः संशयादयो ज्ञानम् ?, इत्याह वेत्थुस्स देसगमगत्तभावओ परमयप्पमाणं व । किह वत्थुदेसविण्णाणहेयवो, सुणसु तं वोच्छं ॥ ३१५ ॥ ज्ञानमेव संशयादयः, इति प्राक्तनी प्रतिज्ञा; वस्तुनो गवादेः स्व-परपर्यायैरनन्तधर्माध्यासितस्य यो देश एकदेशस्तस्य गमकत्वभावात् , इति हेतुः; पराभिमतं प्रमाणं निश्चयज्ञानरूपं तद्वदिति दृष्टान्तः । इह यद् वस्त्वेकदेशस्य गमकं तज् ज्ञानं दृष्टं, यथा परमतं निश्चयरूपं प्रमाणम् , वस्त्वेकदेशगमकाश्च संशयादयः, ततस्ते ज्ञानम् , इति । अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति-कथं वस्त्वेकदेशविज्ञानहेतवः संशयादयः?, वस्तुनो निरंशत्वेन देशस्यैवाभावाद् न त एकदेशग्राहिणो घटन्त इति परस्याऽभिप्रायः। आचायः प्राह- यत् त्वया पृष्टं तद् वक्ष्ये भणिष्याम्यहम् , शृणु समवहितः समाकर्णय त्वम् ।। इति गाथार्थः ।। ३१५ ॥ यथाप्रतिज्ञातमेवाह इह वत्थुमत्थ-वयणाइपज्जयाणंतसत्तिसंपन्नं । तस्सेगदेसविच्छेयकारिणो संसयाईया ॥ ३१६ ॥ १ क.ग. 'नम्'। २ वस्तुनो देशगमकत्वभावतः परमतप्रमाणमिव । कथं वस्तुदेशविज्ञानहेतवः, शृणु तद् वक्ष्ये ॥ ३१५॥ ३ घ.छ.ज. 'ना' । ४ इह वस्त्वर्थ-वचनादिपर्यायाऽनन्तशक्तिसंपन्नम् । तस्यैकदेशविच्छेदकारिणः संशयादयः ।। ३१६॥ RESTHETHEASESARDARS8888888razes ॥१८६॥ Jan Education intem For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202