Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
।।१५२।।
Jain Educations Internations
क्षणस्य तदाद्यभेदस्याऽभावप्रसङ्गः प्रथमत एवाध्वग्रहमतिक्रम्या पायाभ्युपगमात् । कथं पुनः शब्दज्ञानमपायः १, इति चेत् । उच्यतेतस्याऽपि विशेषग्राहकत्वात्, विशेषज्ञानस्य च भवताऽप्यपायत्वेनाऽभ्युपगतत्वात् । ननु ' शाङ्ख एवाऽयं शब्द:' इत्यादिकमेव तदुत्तरकालभावि ज्ञानं विशेषग्राहकं, शब्दज्ञाने तु शब्दसामान्यस्यैव प्रतिभासनात् कथं विशेषप्रतिभासः, येनाऽपायप्रसङ्गः स्यात् १, इत्याह'नणु इत्यादि' नन्वित्यक्षमायां, परामन्त्रणे वा, ननु 'शब्दोऽयं नाशब्दः' इति विशेषोऽयं विशेषप्रतिभास एवायमित्यर्थः । कथं पुननशब्द इति निश्चीयते ?, इत्याह- न च रूपादिरिति, चशब्दो हिशब्दार्थे, आदिशब्दाद् गन्ध-रसस्पर्शपरिग्रहः । ततंश्चेदमुक्तं भवति| यस्माद् न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात्, अतो 'नाऽशब्दोऽयं' इति निश्चीयते ; यदि तु रूपादिभ्योऽपि व्यावृत्तिर्गृहीता न स्यात्, तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः । तस्मात् 'शब्दोऽयं नाशब्दः' इति विशेषप्रतिभास एवाऽयम् । तथा च सत्यस्याऽप्यपायमसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् ।। इति गाथार्थः ॥ २५४ ॥
अथ परोsवग्रहाऽपाययोर्विषयविभागं दर्शयन्नाह
भोवमियं नाऽवाओ संखाइविसेसणमवाओ त्ति । तब्भेयावेक्खाए नणु थोवमियं पि नावाओ ॥ २५५ ॥ इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकं स्तोकविशेषग्राहकम्, अतोऽपायो न भवति, किन्त्ववग्रह एवाऽयमिति भावः । कः पुनस्तीपायः १, इत्याह- 'संखाईत्यादि ' शाङ्खोऽयं शब्द इत्यादिविशेषणविशिष्टं यज्ज्ञानं तदपायः बृहद्विशेषावसायित्वादिति हृदयम् । हन्त ! यदि यद् यत् स्तोकं तत् तद् नाऽपायः, तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थविशेषग्रहणापेक्षयां पूर्वपूर्वार्थविशेषावसायस्य स्तोकत्वाद । एतदेवाह - ' तब्भेयेत्यादि ' तस्य शाङ्खशब्दस्य ये उत्तरोत्तरभेदा मन्द्र- मधुरत्वादयः, तरुण-मध्यम-वृद्ध स्त्री-पुरुषसमुत्थत्वादयश्चं तदपेक्षायां सत्यामिदमपि 'शाङ्खोऽयं शब्द:' इत्यादि ज्ञानं ननु स्तोकं स्तोकाविशेषग्राहकमेव, इति नाऽपायः स्यात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीयः || इति गाथार्थः ॥ २५५ ॥
तमेवाsपायाभावं स्फुटीकुर्वन्नाह
इय सुबहुणा वि कालेण सव्वभेयाऽवहारणमसज्यं । जम्मि हवेज्ज अवाओ सव्त्रो च्चिय उग्गहो नाम ॥ २५६॥
१ स्तोकमिदं नाऽपायः शाङ्खादिविशेषणमपाय इति । तद्भेदाऽपेक्षायां ननु स्तोकमिदमपि नाऽपायः ॥ २५५ ॥ २ घ. ज. श्च तदपेक्षया त ३ इति सुबहुनाऽपि कालेन सर्वभेदाऽवधारणमसाध्यम् । यस्मिन् भवेदपायः सर्व एवाऽवग्रहो नाम ॥ २५६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१५२॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202