Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
।। १५८।।
Jain Educations International
विशेषा धर्माः श्रोत्रग्राह्यत्वादयः, चक्षुरादिवेद्यत्वादयश्च तद्विषयेहा तदन्यविशेषेहा, किमत्र श्रोत्रग्राह्यत्वादयो धर्मा उपलभ्यन्ते, आहोस्विच्चक्षुरादिवेद्यत्वादयः ? इत्येवंरूपो विमर्श इत्यर्थः, तदनन्तरं तु वर्जनं च तत्राऽविद्यमानरूपादिगतानां हेयधर्माणां चक्षुर्वेद्यत्वादीनां परिग्रहणं च तत्र गृहीतशब्द सामान्यगतानामुपादेयधर्माणां श्रोत्रग्राह्यत्वादीनाम् इति वर्जन- परिग्रहणे त्यागा -ऽऽदाने; सामान्यं च तदन्यविशेषेहा च वर्जन-परिग्रहणे च सामान्य- तदन्यविशेषेहा-वर्जन- परिग्रहणानि तेभ्यस्ततः । ' से ' तस्य श्रोतुः । अर्थावग्रहैकसमये - ऽप्युपयोगबाहुल्यमापन्नं प्राप्तम् । तथाहि - प्रथमः सामान्यग्रहणोपयोगः, यथोक्तेहोपयोगस्तु द्वितीयः, हेयधर्मवर्जनोपयोगस्तृतीयः, उपादेयधर्मपरिग्रहणोपयोगचतुर्थः, इत्येवमर्थावग्रहैकसमयमात्रेऽपि बहव उपयोगाः प्राप्नुवन्ति । न चैतद् युक्तम्, समयविरुद्धत्वात् । तस्माद् नार्थावग्रहे शब्दविशेषबुद्धिः, किन्तु 'संदे त्ति भणइ वत्ता' इत्यादि स्थितम् ।। इति गाथार्थः ॥ २६७ ॥ अथाऽस्मिन्नेवाऽर्थावग्रहेऽपरवाद्यभिप्रायं निराचिकीर्षुराह -
अण्णे सामण्णग्गहणमाहु बालरस जायमेत्तस्स । समयम्मि चैव परिचियविसयरस विसेसविन्नाणं ॥ २६८ ॥
अन्ये वादिनः केचिदेवमाहुः - यदेतत्सर्वविशेषविमुखस्याऽव्यक्तस्य सामान्यमात्रस्य वस्तुनो ग्रहणमालोचनं, तद् वालस्य शिशोस्तत्क्षणजातमात्रस्य भवति, नाऽत्र विप्रतिपत्तिः, अव्यक्तो ह्यसौ संकेतादिविकलोऽपरिचितविषयः । यस्तर्हि परिचितविषयः, तस्य किम् ?, इत्याह- समय एवाऽऽयशब्दश्रवणसमय एव विशेषविज्ञानं जायते, स्पष्टत्वात् तस्य । ततश्चाऽमुमाश्रित्य " तेण सद्दे त्ति उगहिए" इत्यादि यथाश्रुतमेव व्याख्यायते, न कश्चिद् दोष इति भावः ॥ इति गाथार्थः ॥ २६८ ॥
अत्रोत्तरमाह
तेंदुवत्थमेव तं पुव्वदोसओ तम्मि चैव वा समये । संख-महुराइसुबहुयविसेसग्रहणं पसज्जेज्जा ॥ २६९ ॥
'' जेणत्थोग्गहकाले ' इत्यादिना ग्रन्थेन ' सामण्ण- तयण्णविसेसेहा' इत्यादिना च ग्रन्थेन यद् दूषितं या तस्यावस्था
१ गाथा २५३ | २ अन्ये सामान्यग्रहणमाहुर्वालस्य जातमात्रस्य । समये एव परिचितविषयस्य विशेषविज्ञानम् ॥ २६८ ॥ ३ तेन शब्द इत्यवगृहीतः । ४ तदवस्थमेव तत् पूर्वदोषतस्तस्मिन्नेव वा समये । शाङ्ख-मधुरादिसुबहुक विशेषग्रहणं प्रसज्येत || २६९|| ५ गाथा २६६ । ६ गाथा २६७ ।
For Personal and Private Use Only
बृहद्वत्तिः ।
।। १५८।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202