Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 165
________________ विशेषा० ॥ १६३॥ Jain Educationa Internationa तत् समालोचनं यदि सामान्यरूपस्यार्थस्य दर्शनमिष्यते, ततस्तर्हि न व्यञ्जनं व्यञ्जनावग्रहात्मकं भवति, व्यञ्जनावग्रहस्य व्यञ्जनसंबन्धमात्ररूपत्वेनाऽर्थशून्यत्वात् तथाच प्रागपि 'पुत्रं च तस्स वंजणकालो सो अत्थपरिसुण्णो ' इत्यादिना साधितमेवेदम् । अतोऽर्थदर्शनरूपमालोचनं कथमर्थशून्यव्यञ्जनावग्रहात्मकं भवितुमर्हति ?, विरोधात् । अथ द्वितीयविकल्पमङ्गीकृत्याह - अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसंवन्धमात्रस्य तत् समालोचनमिष्यते, तर्हि कथमालोचनं- कथमालोचकत्वं तस्य घटते १, इत्यर्थः । कथंभूतस्य सतः ?, इत्याह- अर्थशून्यस्य व्यञ्जनसंबन्धमात्रान्वितत्वेन सामान्यार्थीलोचकत्वानुपपत्तेरित्यर्थः । इति गाथार्थः ॥ २७६ ॥ ननु शास्त्रान्तरप्रसिद्धस्याऽऽलोचनज्ञानस्य वराकस्य तर्हि का गतिः ?, इत्याह आलोर्येण त्ति नामं हवेज्ज तं वंजणोग्गहस्सेव । होज कहं सामण्णग्गहणं तत्थत्थसुण्णम्मि ? ॥ २७७ ॥ तस्मादालोचनमिति यन्नाम तदन्यत्र निर्गतिकं सत् पारिशेष्याद् व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत् । न च विवक्षामात्रप्रवृत्तेषु वस्तूनां बहुष्वपि नामसु क्रियमाणेषु कोsपि विवादमाविष्करोति । अत एतदपि नामान्तरमस्तु, को दोषः ? इति । नैतदेवम्, यस्मादिदं सामान्यग्राहकमालोचनज्ञानं भविष्यति, अर्थावग्रहस्तु विशेषग्राहक इति; एवमप्यस्माकं समीहितसिद्धिर्भविष्यतीति चेत् । इत्याह- ' होज्जेत्यादि ' व्यञ्जनावग्रहस्यैव पारिशेष्यादालोचनज्ञानत्वमापन्नम्, तत्र च प्रागुक्तयुक्तिभिरर्थशून्ये कथं सामान्यग्रहणं भवेत्, येन भवतः समीहितसिद्धिप्रमोदः ? इति । तस्मादर्थावग्रह एव सामान्यार्थग्राहकः, न पुनरेतस्मादपरमालोचनाज्ञानम् । अत एव यदुक्तम्- “ अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् " इत्यादि, तदप्यर्थावग्रहाश्रयमेव यदि, घटते, नान्यविषयम् ॥ इति गाथार्थः ।। २७७ ॥ अथ 'दुर्बलं वादिनं दृष्ट्राऽभ्युपगमोऽपि कर्तव्यः' इतिन्यायप्रदर्शनार्थमाह हियं व होउ तहियं सामण्णं कहमणीहिए तम्मि । अत्थावग्गहकाले विसेसणं एस सदो त्ति १ ॥ २७८॥ अथवा भवतु तस्मिन् व्यञ्जनावग्रहे सामान्यं गृहीतम्, तथापि कथमनीहितेऽविमर्शिते तस्मिन्नकस्मादेवार्थावग्रहकाले ' शब्द एषः' इति विशेषणं विशेषज्ञानं युक्तम्, 'शब्द एवैषः' इत्यवं हि निश्वयः, न चायमीहामन्तरेण झगित्येव युज्यते, इत्यसकृदे - वोक्तप्रायम् । अतो नार्थावग्रहे ' शब्दः' इत्यादिविशेषबुद्धिर्युज्यते ।। इति गाथार्थः ॥ २७८ ॥ १ गाथा २५९ । २.ग.घ.छ.ज. 'च वंजणोग्गहका ३ आलोचनेति नाम भवेत् तद् व्यञ्जनावग्रहस्यैव भवेत् कथं सामान्यग्रहणं तत्राऽर्थशून्ये ? ॥ २७७ ॥ ४क.ग. ' यणं तिना । ५ गृहीतं वा भवतु तस्मिन् सामान्यं कथमनीहिते तस्मिन् । अर्थावग्रहकाले विशेषणमेष शब्द इति ? ॥ २७८ ॥ For Personal and Private Use Only बृहद्वृत्तिः ॥ १६३॥ 13 www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202