Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 166
________________ Sistoield बृहदत्तिः । विशेषा० ॥१६॥ SHOTOceae अथाऽर्थावग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे, तत्राऽऽह अत्थावग्गहसमए वीसुमसंखेजसमइया दो वि । तक्का-वगमसहावा ईहा-ऽवाया कहं जुत्ता ? ॥ २७९ ॥ ___ अर्थावग्रहसंवन्धिन्यकस्मिन् समये कथमीहा-ऽपायौ युक्तौ ?, इति संबन्धः । कथंभूतावेतौ ? यतः, इत्याह- तर्का-ऽनगमस्वभावौ, तर्को विमर्शस्तत्स्वभावेहा, अवगमो निश्चयस्तत्स्वभावोऽपायः; द्वावपि चैतौ पृथगसंख्येयसमयनिष्पन्नौ । एतदुक्तं भवतियदिदमर्थावग्रहे विशेषज्ञानं त्वयेष्यते सोऽपायः, स चाऽवगमस्वभावो निश्चयखरूप इत्यर्थः; या च तत्समकालमीहाऽभ्युपेयते सा तर्कस्वभावा, अनिश्चयात्मिकेत्यर्थः । तत एतावीहा-पायावनिश्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तौ; निश्चया-ऽनिश्चययोः परस्परपरिहारेण व्यवस्थितत्वात् , एकत्रैकदाऽवस्थानाभावेन सहोदयाऽनुपपत्तेः । इति । एषा तावद् विशेषावगमे-हयोः सहभावे एकाऽनुपपत्तिः । अपरं च समयमात्रकालोऽर्थावग्रहः , ईहा-ऽपायौ तु "ईहा-चाया मुहुत्तमंतं तु" इति वचनात् प्रत्येकमसंख्येयसमयनिष्पनी कथमेकस्मिन्नर्थावग्रहसमये स्याताम् , अत्यन्तानुपपन्नत्वात् । इति द्वितीयाऽनुपपत्तिः । तस्मादत्यन्तासंबद्धत्वाद् यत् किश्चिदेतत् , इत्युपेक्षणीयम् ॥ इति गाथार्थः ॥२७९ ।। तदेवं युक्तिशतैर्निराकृतानामपि प्रेरकाणां निःसंख्यात्वात् केषांचित् मेर्यशेषमद्यापि मूरिराशङ्कतेखिप्पे-यराइभेओ जमोग्गहो तो विसेसविण्णाणं । जुज्जइ विगप्पवसओ सद्दो त्ति सुयम्मि जं केइ ॥ २८ ॥ केइ त्ति' इहार्थावग्रहे विशेषज्ञानसमर्थनाऽऽग्रहममुमुक्षवोऽद्यापि केचिद् वादिनो मन्यन्ते । किम् ?, इत्याह-क्षिप्रे-तरादिभेदो यस्मादवग्रहो ग्रन्थान्तरे भणितः 'अत्रापि च विस्तरेण भणिष्यते' इति गम्यते । ततः 'शब्दः' इति विशेषविज्ञानं युज्यते घटते 'अर्थावग्रहे' इति प्रस्तावादेव लभ्यते । यत् किम् ?, इत्याह- 'सुयम्मि जंति' " तेणं सद्दे ति उग्गहिए" इत्यादिवचनात् यत् 'सूत्रे निर्दिष्टम्' इति शेषः । कुतः पुनरिदं विशेषविज्ञानं युज्यते ?, इत्याह- विकल्पवशतोऽन्यत्रोक्तनानात्ववशतः, इत्यक्षरघटना ॥ एतच्चाऽत्र हृदयम्- “क्षिप्रमवगृहाति, चिरेणाऽवगृहाति, बहवगृह्णाति, अबढ़वगृह्णाति, बहुविधमवगृह्णाति, अबहुविधमवगृह्णाति, एवमनिश्रितम् , निश्रितं, असंदिग्धं, संदिग्धम् , धुवम् , अध्रुवमवगृह्णाति" इत्यादिना ग्रन्थेनाऽवग्रहादयः शास्त्रान्तरे द्वादशभिर्विशेषणैर्विशेषिताः । अत्रापि च पुरस्तादयमों वक्ष्यते । ततः 'क्षिप्रं चिरेण वाऽवगृह्राति' इतिविशेषणान्यथानुपपत्तेर्जायते १ भावग्रहसमये विष्वगसंख्येवसामयिकी द्वावपि । तर्का-उवगमस्वभावावीहा-उपायौ कथं युक्ती १ ॥ २७९॥ २ ईहा-पायी मुहूर्तान्तस्तु । ३ क्षि-तरादिभेडो पदवमहस्ततो विशेषविज्ञानम् । युज्यते विकल्पवशतः शब्द इति सूत्रे यत् केचित् ॥ २८॥ । 7॥१६४॥ For Des s ert

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202